Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 72

95 Mantra
19/72
Devata- सोमो देवता Rishi- शङ्ख ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सोमो॒ राजा॒मृत॑ꣳ सु॒तऽऋ॒जी॒षेणा॑जहान्त्मृ॒त्युम्। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ꣳ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑॥७२॥

सोमः॑ राजा॑। अ॒मृत॑म्। सु॒तः। ऋ॒जी॒षेण॑। अ॒ज॒हा॒त्। मृ॒त्युम्। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑ ॥७२ ॥

Mantra without Swara
सोमो राजामृतँ सुत ऋजीषेणाजहान्मृत्युम् । ऋतेन सत्यमिन्द्रियँविपानँ शुक्रमन्धस इन्द्रस्येन्द्रियमिदम्पयो मृतम्मधु ॥

सोमः राजा। अमृतम्। सुतः। ऋजीषेण। अजहात्। मृत्युम्। ऋतेन। सत्यम्। इन्द्रियम्। विपानमिति विऽपानम्। शुक्रम्। अन्धसः। इन्द्रस्य। इन्द्रियम्। इदम्। पयः। अमृतम्। मधु॥७२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सोमः) ऐश्वर्यवान् प्रेरकः (राजा) देदीप्यमानः (अमृतम्) अमृतात्मक ब्रह्म ओषधेः सारं वा (सुतः) (ऋजीषेण) सरलभावेन (अजहात्) जह्यात् (मृत्युम्) (ऋतेन) सत्येन ब्रह्मणा (सत्यम्) सत्सु साधु (इन्द्रियम्) इन्द्रस्य जीवस्य लिङ्गम (विपानम्) विविधं पानं यस्मात् तत् (शुक्रम्) आशु कार्य्यकरम् (अन्धसः) अन्नस्य (इन्द्रस्य) परमैश्वर्यस्य (इन्द्रियम्) धनम् (इदम्) जलम्। इदमित्युकदनामसु पठितम्॥ (निघं॰१.१२) (पयः) दुग्धम् (अमृतम्) एतत्स्वरूपमानन्दम् (मधु) क्षौद्रम्॥७२॥
Essence
ये सुशीलेन विद्वत्सङ्गात् सर्वाणि शुभलक्षणानि प्राप्नुवन्ति, ते मृत्युदुःखं हित्वा मोक्षसुखं गृह्णन्ति॥७२॥
Subject
के मुक्तिमाप्नुवन्तीत्याह॥
Anvaya
य ऋतेनान्धसः सत्यं विपान्ं शुक्रमिन्द्रियमिन्द्रस्येन्द्रियमिदम्पयोऽमृतं मधु च सङ्गृह्णीयात्, सोऽमृतं प्राप्तः सन् सुतस्सोमो राजर्जीषेण मृत्युमजहात्॥७२॥