Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 71

95 Mantra
19/71
Devata- इन्द्रो देवता Rishi- शङ्ख ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ऽइ॒न्द्रोद॑वर्त्तयः। विश्वा॒ यदज॑यः॒ स्पृधः॑॥७१॥

अ॒पाम्। फेने॑न। नमु॑चेः। शिरः॑। इ॒न्द्र॒। उत्। अ॒व॒र्त्त॒यः॒। विश्वाः॑। यत्। अज॑यः। स्पृधः॑ ॥७१ ॥

Mantra without Swara
अपाम्फेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः ॥

अपाम्। फेनेन। नमुचेः। शिरः। इन्द्र। उत्। अवर्त्तयः। विश्वाः। यत्। अजयः। स्पृधः॥७१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अपाम्) जलानाम् (फेनेन) वर्द्धनेन (नमुचेः) योऽपः स्वस्वरूपं न मुञ्चति तस्य मेघस्य (शिरः) घनाकारमुपरिभागम् (इन्द्र) सूर्य इव वर्त्तमान सेनेश (उत्) (अवर्त्तयः) ऊर्ध्वं वर्त्तय (विश्वाः) अखिलाः (यत्) याः (अजयः) जय (स्पृधः) याः स्पर्द्धन्ते ताः शत्रुसेनाः॥७१॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्येणाच्छादितोऽपि मेघः पुनः पुनरुत्तिष्ठति, तथैव ते शत्रवोऽपि पुनः पुनरुत्थानं कुर्वन्ति, ते यावत् स्वं बलं न्यूनं परेषामधिकं च पश्यन्ति, तावच्छान्ता वर्त्तन्ते॥७१॥
Subject
अथ सेनेशः कीदृशः स्यादित्याह॥
Anvaya
हे इन्द्र! यथा सूर्योऽपां फेनेन नमुचेर्मेघस्य शिरश्छिनत्ति, तथैव त्वं स्वकीयाः सेना उदवर्त्तयो यद्या विश्वाः स्पृधः सन्ति, ता अजयः॥७१॥