Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 70

95 Mantra
19/70
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्तः॒ समि॑धीमहि। उ॒शन्नु॑श॒तऽआ व॑ह पि॒तॄन् ह॒विषे॒ऽअत्त॑वे॥७०॥

उ॒शन्तः॑। त्वा॒। नि। धी॒म॒हि॒। उ॒शन्तः॑। सम्। इ॒धी॒म॒हि॒। उ॒शन्। उ॒श॒तः। आ। व॒ह॒। पि॒तॄन्। ह॒विषे॑। अत्त॑वे ॥७० ॥

Mantra without Swara
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि । उशन्नुशतऽआवह पितऋृन्हविषेऽअत्तवे ॥

उशन्तः। त्वा। नि। धीमहि। उशन्तः। सम्। इधीमहि। उशन्। उशतः। आ। वह। पितॄन्। हविषे। अत्तवे॥७०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उशन्तः) कामयमानाः (त्वा) त्वाम् (नि) (धीमहि) धरेम। अत्र बहुलं छन्दसि [अष्टा॰२.४.७३] इति शपो लुक् छन्दस्युभयथा [अष्टा॰३.४.११७] इत्यार्द्धधातुकसंज्ञा घुमास्था॰ [अष्टा॰६.४.६६] इत्यादिना ईत्वम्। (उशन्तः) (सम्) एकीभावे (इधीमहि) दीपयेम (उशन्) कामयमानः (उशतः) कामयमानान् (आ) (वह) प्राप्नुहि (पितॄन्) जनकादीन् (हविषे) हविर्दातुमर्हम्। अत्र व्यत्ययेन द्वितीयास्थाने चतुर्थी (अत्तवे) अत्तुं भोक्तुम्॥७०॥
Essence
यथा विद्वांसो धीमतो जितेन्द्रियान् कृतज्ञान् परिश्रमिणो विचारशीलान् विद्यार्थिनो नित्यं कामयेरँस्तथा विद्यार्थिनोऽपीदृशानध्यापकान् विदुषः संसेव्य विद्वांसो भवन्तु॥७०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्यार्थिन् पुत्र वा! त्वामुशन्तो वयं त्वा निधीमह्युशन्तः सन्तः समिधीमहि। उशंस्त्वं हविषेऽत्तवे उशतोऽस्मान् पितॄनावह॥७०॥