Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 7

95 Mantra
19/7
Devata- सोमो देवता Rishi- आभूतिर्ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
नाना॒ हि वां॑ दे॒वहि॑त॒ꣳ सद॑स्कृ॒तं मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन्। सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ऽए॒ष मा मा॑ हिꣳसीः॒ स्वां योनि॑मावि॒शन्ती॑॥७॥

नाना॑। हि। वा॒म्। दे॒वहि॑त॒मिति॑ दे॒वऽहि॑तम्। सदः॑। कृ॒तम्। मा। सम्। सृ॒क्षा॒था॒म्। प॒र॒मे॒। व्यो॑म॒न्निति॒ विऽओ॑मन्। सुरा॑। त्वम्। असि॑। शु॒ष्मिणी॑। सोमः॑। ए॒षः। मा। मा॒। हि॒ꣳसीः॒। स्वाम्। योनि॑म्। आ॒वि॒शन्तीत्या॑ऽवि॒शन्ती॑ ॥७ ॥

Mantra without Swara
नाना हि वान्देवहितँ सदस्कृतम्मा सँसृक्षाथाम्परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोमऽएष मा मा हिँसीः स्वाँयोनिमाविशन्ती ॥

नाना। हि। वाम्। देवहितमिति देवऽहितम्। सदः। कृतम्। मा। सम्। सृक्षाथाम्। परमे। व्योमन्निति विऽओमन्। सुरा। त्वम्। असि। शुष्मिणी। सोमः। एषः। मा। मा। हिꣳसीः। स्वाम्। योनिम्। आविशन्तीत्याऽविशन्ती॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(नाना) अनेकप्रकारेण (हि) किल (वाम्) युवाभ्याम् (देवहितम्) देवेभ्यः प्रियम् (सदः) स्थानम् (कृतम्) (मा) (सम्, सृक्षाथाम्) संसर्गं कुरुतम् (परमे) उत्कृष्टे (व्योमन्) व्योम्नि बुद्ध्यवकाशे (सुरा) सोमवल्ल्यादिलता। अत्र षुञ् अभिषवे इत्यस्यामद्धातोरौणादिको रः प्रत्ययः। (त्वम्) सा (असि) अस्ति (शुष्मिणी) बहु शुष्म बलं यस्यामस्ति सा (सोमः) महौषधिगणः (एषः) (मा) (मा) माम् (हिंसीः) हिंस्याः (स्वाम्) स्वकीयाम् (योनिम्) कारणम् (आविशन्ती) समन्तात् प्रविशन्ती॥७॥
Essence
ये राजप्रजास्थमनुष्या बुद्धिबलारोग्यायुर्वर्द्धकानोषधिरसान् सततं सेवन्ते, प्रमादकरांश्च त्यजन्ति, तेऽत्र परत्र च धर्मार्थकाममोक्षसाधका भवन्ति॥७॥
Subject
राजप्रजे कथं स्यातामित्युपदिश्यते॥
Anvaya
हे राजप्रजाजनौ! नाना सदस्कृतं देवहितं वां प्राप्नोति, या हि स्वां योनिमाविशन्ती शुष्मिणी सुरास्ति, त्वं परमे व्योमन् वर्त्तमानाऽसि तां युवां प्राप्नुतम्। मादकद्रव्याणि मा संसृक्षाथाम्, विद्वन् एष सोमोऽस्ति, तं मा च त्वं मा हिंसीः॥७॥