Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 69

95 Mantra
19/69
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ऽअग्नऽऋ॒तमा॑शुषा॒णाः। शुचीद॑य॒न् दीधि॑तिमुक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ऽअरु॒णीरप॑ व्रन्॥६९॥

अध॑। यथा॑। नः॒। पि॒तरः॑। परा॑सः। प्र॒त्नासः॑। अ॒ग्ने॒। ऋ॒तम्। आ॒शु॒षा॒णाः। शुचि॑। इत्। अ॒य॒न्। दीधि॑तिम्। उ॒क्थ॒शासः॑। उ॒क्थ॒शास॒ इत्यु॑क्थ॒ऽशसः॑। क्षामा॑। भि॒न्दन्तः॑। अ॒रु॒णीः। अप॑। व्र॒न् ॥६९ ॥

Mantra without Swara
अधा यथा नः पितरः परासः प्रत्नासोऽअग्नऽऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥

अध। यथा। नः। पितरः। परासः। प्रत्नासः। अग्ने। ऋतम्। आशुषाणाः। शुचि। इत्। अयन्। दीधितिम्। उक्थशासः। उक्थशास इत्युक्थऽशसः। क्षामा। भिन्दन्तः। अरुणीः। अप। व्रन्॥६९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अध) अथ। अत्र वर्णव्यत्ययेन थस्य धः। (यथा) (नः) अस्माकम् (पितरः) (परासः) प्रकृष्टाः (प्रत्नासः) प्राचीनाः (अग्ने) विद्वन् (ऋतम्) सत्यम्। (आशुषाणाः) प्राप्नुवन्तः (शुचि) पवित्रम् (इत्) एव (अयन्) प्राप्नुवन्ति (दीधितिम्) विद्याप्रकाशम् (उक्थशासः) य उक्थानि वक्तुं योग्यानि वचनानि शंसन्ति (क्षामा) निवासभूमिम्। अत्र विभक्तेर्लुक् (भिन्दन्तः) विदारयन्तः (अरुणीः) सुशीलतया प्रकाशमयाः स्त्रियः (अप) (व्रन्) दूरीकुर्वन्ति॥६९॥
Essence
अत्रोपमालङ्कारः। ये जनकादयो विद्यां प्रापय्याऽविद्यां निवर्तयन्ति, तेऽत्र सर्वैस्सत्कर्त्तव्याः सन्तु॥६९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने विद्वन्! यथा नः परासः प्रत्नास उक्थशासः शुचि ऋतमाशुषाणाः पितरो दीधितिमरुणीः क्षामा चायन्नधाऽथाविद्यां भिन्दन्त इदावरणान्यपव्रँस्तांस्त्वं तथा सेवस्व॥६९॥