Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 66

95 Mantra
19/66
Devata- अग्निर्देवता Rishi- शङ्ख ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वम॑ग्नऽईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेऽअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीषि॥६६॥

त्वम्। अ॒ग्ने॒। ई॒डि॒तः। क॒व्य॒वा॒ह॒नेति॑ कव्यऽवाहन। अवा॑ट्। ह॒व्यानि॑। सु॒र॒भीणि॑। कृ॒त्वी। प्र। अ॒दाः॒। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। स्व॒धया॑। ते। अ॒क्ष॒न्। अ॒द्धि। त्वम्। दे॒व॒। प्रय॒तेति॒ प्रऽय॑ता। ह॒वीषि॑ ॥६६ ॥

Mantra without Swara
त्वमग्नऽईडितः कव्यवाहनावाड्ढव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वन्देव प्रयता हवीँषि ॥

त्वम्। अग्ने। ईडितः। कव्यवाहनेति कव्यऽवाहन। अवाट्। हव्यानि। सुरभीणि। कृत्वी। प्र। अदाः। पितृभ्य इति पितृऽभ्यः। स्वधया। ते। अक्षन्। अद्धि। त्वम्। देव। प्रयतेति प्रऽयता। हवीषि॥६६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (अग्ने) पावक इव पवित्र (ईडितः) प्रशंसितः (कव्यवाहन) कवीनां प्रागल्भ्यानि कर्माणि प्राप्त (अवाट्) वहसि (हव्यानि) अत्तुमर्हाणि (सुरभीणि) सुगन्धादियुक्तानि (कृत्वी) कृत्वा। स्नात्व्यादयश्च। (अष्टा॰७.१.४९) (प्र) (अदाः) प्रदेहि (पितृभ्यः) (स्वधया) अन्नेन सह (ते) (अक्षन्) अदन्तु (अद्धि) भुङ्क्ष्व (त्वम्) (देव) दातः (प्रयता) प्रयत्नेन साधितानि (हवींषि) आदातुमर्हाणि॥६६॥
Essence
पुत्रादयः सर्वे सुसंस्कृतैः सुगन्धादियुक्तैरन्नपानैः पितॄन् भोजयित्वा स्वयमेतानि भुञ्जीरन्नियमेव पुत्राणां योग्यतास्ति। ये सुसंस्कृतान्नपाने कुर्वन्ति, तेऽरोगाः शतायुषो भवन्ति॥६६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे कव्यवाहनाग्ने विद्वन्! पुत्र! ईडितस्त्वं सुरभीणि हव्यानि कृत्व्यवाट् तानि पितृभ्यः प्रादास्ते पितरः स्वधया सहैतान्यक्षन्। हे देव! त्वं प्रयत हवींष्यद्धि॥६६॥