Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 65

95 Mantra
19/65
Devata- अग्निर्देवता Rishi- शङ्ख ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
योऽअ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन् यक्ष॑दृता॒वृधः॑। प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ॥६५॥

यः। अ॒ग्निः। क॒व्य॒वाह॑न॒ इति॑ कव्य॒ऽवाह॑नः। पि॒तॄन्। यक्ष॑त्। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। प्र। इत्। ऊँ॒ऽइत्यूँ॑। ह॒व्यानि॑। वो॒च॒ति॒। दे॒वेभ्यः॑। च॒। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। आ ॥६५ ॥

Mantra without Swara
योऽअग्निः कव्यवाहनः पितऋृन्यक्षदृतावृधः । प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्यऽआ ॥

यः। अग्निः। कव्यवाहन इति कव्यऽवाहनः। पितॄन्। यक्षत्। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। प्र। इत्। ऊँऽइत्यूँ। हव्यानि। वोचति। देवेभ्यः। च। पितृभ्य इति पितृऽभ्यः। आ॥६५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यः) (अग्निः) अग्निरिव विद्यासु प्रकाशमानः (कव्यवाहनः) यः कव्यानि कवीनां प्रशस्तानि कर्माणि प्रापयति सः (पितॄन्) जनकादीन् (यक्षत्) सत्कुर्यात् (ऋतावृधः) य ऋतेन वेदविज्ञानेन वर्द्धन्ते। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (प्र) (इत्) एव (उ) वितर्के (हव्यानि) आदातुमर्हाणि विज्ञानानि (वोचति) वदति। वचेर्लेट्यट् वच उमित्युमागमः। (देवेभ्यः) विद्वद्भ्यः (च) (पितृभ्यः) जनकादिभ्यः (आ) समन्तात्॥६५॥
Essence
ये ब्रह्मचर्येण पूर्णविद्या भवन्ति, ते विद्वत्सु विद्वांसः पितृषु पितरश्च गण्यन्ते॥६५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यः कव्यवाहनोऽग्निर्विद्वान् ऋतावृधः पितॄन् यक्षत्, स इदु देवेभ्यः पितृभ्यश्च हव्यानि प्रावोचति॥६५॥