Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 64

95 Mantra
19/64
Devata- अग्निर्देवता Rishi- शङ्ख ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम्। तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म्॥६४॥

यम्। अ॒ग्ने॒। क॒व्य॒वा॒ह॒नेति॑ कव्यऽवाहन। त्वम्। चित्। मन्य॑से। र॒यिम्। तम्। नः॒। गी॒र्भिरिति॑ गीः॒ऽभिः। श्र॒वाय्य॑म्। दे॒व॒त्रेति॑ देव॒ऽत्रा। प॒न॒य॒। युज॑म् ॥६४ ॥

Mantra without Swara
यमग्ने कव्यवाहन त्वञ्चिन्मन्यसे रयिम् । तन्नो गीर्भिः श्रवाय्यन्देवत्रा पनया युजम् ॥

यम्। अग्ने। कव्यवाहनेति कव्यऽवाहन। त्वम्। चित्। मन्यसे। रयिम्। तम्। नः। गीर्भिरिति गीःऽभिः। श्रवाय्यम्। देवत्रेति देवऽत्रा। पनय। युजम्॥६४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यम्) (अग्ने) अग्निरिव प्रकाशमान विद्वन् (कव्यवाहन) यः कविषु साधूनि वस्तूनि वहति प्रापयति तत्सम्बुद्धौ (त्वम्) (चित्) अपि (मन्यसे) (रयिम्) ऐश्वर्यम् (तम्) (नः) अस्मभ्यम् (गीर्भिः) (श्रवाय्यम्) श्रावयितुमर्हम्। श्रुदक्षि॰ (उणा॰३.९६) इत्यादिना आय्य प्रत्ययः। (देवत्रा) देवेषु विद्वत्सु (पनय) देहि। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (युजम्) योक्तुमर्हम्॥६४॥
Essence
पितृभिः पुत्रेभ्यस्सत्पात्रेभ्यश्च प्रशंसनीयं धनं सञ्चेयम्। तेनैतान् विदुषो गृहीत्वा सत्यधर्मोपदेशकान् कारयित्वा विद्याधर्मौ प्रचारणीयौ॥६४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे कव्यवाहनाऽग्ने! त्वं गीर्भिः श्रवाय्यं देवन्ना युजं यं रयिं मन्यसे तं चिन्नः पनय॥६४॥