Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 63

95 Mantra
19/63
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आसी॑नासोऽअरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य। पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्रय॑च्छ॒त तऽइ॒होर्जं॑ दधात॥६३॥

आसी॑नासः। अ॒रु॒णीना॑म्। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। र॒यिम्। ध॒त्त। दा॒शुषे॑। मर्त्या॑य। पु॒त्रेभ्यः॑। पि॒त॒रः॒। तस्य॑। वस्वः॑। प्र। य॒च्छ॒त॒। ते। इह। ऊर्ज्ज॑म्। द॒धा॒त॒ ॥६३ ॥

Mantra without Swara
आसीनासोऽअरुणीनामुपस्थे रयिन्धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जन्दधात ॥

आसीनासः। अरुणीनाम्। उपस्थ इत्युपऽस्थे। रयिम्। धत्त। दाशुषे। मर्त्याय। पुत्रेभ्यः। पितरः। तस्य। वस्वः। प्र। यच्छत। ते। इह। ऊर्ज्जम्। दधात॥६३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आसीनासः) उपस्थिताः सन्तः (अरुणीनाम्) अरुणवर्णानां स्त्रीणाम् (उपस्थे) उत्सङ्गे (रयिम्) श्रियम् (धत्त) (दाशुषे) दात्रे (मर्त्याय) मनुष्याय (पुत्रेभ्यः) (पितरः) (तस्य) (वस्वः) वसुनो धनस्य (प्र) (यच्छत) (ते) (इह) (ऊर्ज्जम्) पराक्रमम् (दधात) दधीरन्॥६३॥
Essence
त एव वृद्धाः सन्ति ये स्वस्त्रीव्रताः स्वपत्नीनां सत्कर्त्तारोऽपत्येभ्यो यथायोग्यं दायं सत्पात्रेभ्यो दानं च सदा ददति, ते च सन्तानैर्माननीयाः सन्ति॥६३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे पितरः! यूयमिहारुणीनामुपस्थ आसीनासः सन्तः पुत्रेभ्यो दाशुषे मर्त्याय च रयिं धत्त, तस्य वस्वोंऽशान् प्रयच्छत, यतस्त ऊर्जं दधात॥६३॥