Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 60

95 Mantra
19/60
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- विराट त्रिष्टुप् Swara- धैवतः
Mantra with Swara
येऽअ॑ग्निष्वा॒त्ता येऽअन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं कल्पयाति॥६०॥

ये। अ॒ग्नि॒ष्वा॒त्ताः। अ॒ग्नि॒ष्वा॒त्ता इत्य॑ग्निऽस्वा॒त्ताः। ये। अन॑ग्निष्वात्ताः। अन॑ग्निष्वात्ता॒ इत्यन॑ग्निऽस्वात्ताः। मध्ये॑। दि॒वः। स्व॒धया॑। मा॒दय॑न्ते। तेभ्यः॑। स्व॒राडिति॑ स्व॒ऽराट्। असु॑नीति॒मित्यसु॑ऽनीतिम्। ए॒ताम्। य॒था॒व॒शमिति॑ यथाऽव॒शम्। त॒न्व᳖म्। क॒ल्प॒या॒ति॒ ॥६० ॥

Mantra without Swara
येऽअग्निष्वात्ता येऽअनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते । तेभ्यः स्वराडसुनीतिमेताँयथावशन्तन्वङ्कल्पयाति ॥

ये। अग्निष्वात्ताः। अग्निष्वात्ता इत्यग्निऽस्वात्ताः। ये। अनग्निष्वात्ताः। अनग्निष्वात्ता इत्यनग्निऽस्वात्ताः। मध्ये। दिवः। स्वधया। मादयन्ते। तेभ्यः। स्वराडिति स्वऽराट्। असुनीतिमित्यसुऽनीतिम्। एताम्। यथावशमिति यथाऽवशम्। तन्वम्। कल्पयाति॥६०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (अग्निष्वात्ताः) सम्यग्गृहीताऽग्निविद्याः (ये) (अनग्निष्वात्ताः) अविद्यमानाग्निविद्याग्रहणा ज्ञाननिष्ठाः पितरः (मध्ये) (दिवः) विज्ञानादिप्रकाशस्य (स्वधया) स्वकीयपदार्थधारणक्रियया (मादयन्ते) आनन्दन्ति (तेभ्यः) पितृभ्यः (स्वराट्) यः स्वयं राजतेऽसौ परमात्मा (असुनीतिम्) या असून् प्राणान् नयति प्राप्नोति ताम् (एताम्) (यथावशम्) वशं कामनामनतिक्रम्य करोतीति (तन्वम्) (कल्पयाति) कल्पयेत् समर्थं कुर्य्यात्॥६०॥
Essence
हे परमेश्वर! येऽग्न्यादिपदार्थविद्यां विज्ञाय प्रवर्तयन्ति, ये च ज्ञाननिष्ठा विद्वांसः स्वेनैव पदार्थेन तुष्टा भवन्ति, तेषां शरीराणि दीर्घायूंषि सम्पादय इति प्रार्थनीयः॥६०॥
Subject
मनुष्यैरीश्वरः कथं प्रार्थनीय इत्याह॥
Anvaya
येऽग्निष्वात्ता ये अनग्निष्वात्ता दिवो मध्ये स्वधया मादयन्ते, तेभ्यः स्वराडेतामसुनीतिं तन्वं यथावशं कल्पयाति॥६०॥