Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 6

95 Mantra
19/6
Devata- इन्द्रो देवता Rishi- आभूतिर्ऋषिः Chhand- विराट् प्रकृतिः Swara- धैवतः
Mantra with Swara
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ऽ उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्याय त्वा॒ बला॑य त्वा॥६॥

कु॒वित्। अ॒ङ्ग। यव॑मन्त॒ इति॒ यव॑ऽमन्तः। यव॑म्। चि॒त्। यथा॑। दान्ति॑। अ॒नु॒पू॒र्वमित्य॑नुऽपू॒र्वम्। वि॒यूयेति॑ वि॒ऽयूय॑। इ॒हेहेती॒हऽइ॒ह। ए॒षा॒म्। कृ॒णु॒हि॒। भोज॑नानि। ये। ब॒र्हिषः॑। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। यज॑न्ति। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ए॒षः। ते॒। योनिः॑। तेज॑से। त्वा॒। वी॒र्या᳖य। त्वा॒। बला॑य। त्वा॒ ॥६ ॥

Mantra without Swara
कुविदङ्ग यवमन्तो वयञ्चिद्यथा दान्त्यनुपूर्वँवियूय । इहेहैषाङ्कृणुहि भोजनानि ये बर्हिषो नमउक्तिँयजन्ति । उपयामगृहीतो स्यश्विभ्यान्त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽएष ते योनिस्तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥

कुवित्। अङ्ग। यवमन्त इति यवऽमन्तः। यवम्। चित्। यथा। दान्ति। अनुपूर्वमित्यनुऽपूर्वम्। वियूयेति विऽयूय। इहेहेतीहऽइह। एषाम्। कृणुहि। भोजनानि। ये। बर्हिषः। नमउक्तिमिति नमःऽउक्तिम्। यजन्ति। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अश्विभ्यामित्यश्विऽभ्याम्। त्वा। सरस्वत्यै। त्वा। इन्द्राय। त्वा। सुत्राम्ण इति सुऽत्राम्णे। एषः। ते। योनिः। तेजसे। त्वा। वीर्याय। त्वा। बलाय। त्वा॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कुवित्) बलम्। कुविदिति बलनामसु पठितम्॥ (निघं॰३.१) (अङ्ग) मित्र (यवमन्तः) बहवो यवा विद्यन्ते येषां ते (यवम्) यवादिधान्यम् (चित्) अपि (यथा) (दान्ति) छिन्दन्ति (अनुपूर्वम्) अनुकूलं प्रथमम् (वियूय) विभज्य (इहेह) अस्मिन् संसारे व्यवहारे च (एषाम्) कृषीवलानाम् (कृणुहि) कुरु (भोजनानि) पालनान्यभ्यवहरणानि वा (ये) (बर्हिषः) अन्नादिप्रापकाः (नमउक्तिम्) नमसामन्नादीनामुक्तिं वृद्धय उपदेशम् (यजन्ति) ददति (उपयामगृहीतः) कर्षकादिभिः स्वीकृतः (असि) (अश्विभ्याम्) द्यावापृथिवीभ्याम् (त्वा) त्वाम् (सरस्वत्यै) कृषिकर्मप्रचारिकायै वाचे (त्वा) (इन्द्राय) शत्रुविदारणाय (त्वा) (सुत्राम्णे) सुष्ठु रक्षित्रे (एषः) (ते) तव (योनिः) कारणम् (तेजसे) प्रागल्भ्याय (त्वा) (वीर्याय) पराक्रमाय (त्वा) (बलाय) (त्वा)॥६॥
Essence
अत्रोपमालङ्कारः। ये राजपुरुषाः कृष्यादिकर्मकर्तॄन् राज्ये करदातॄन् परिश्रमिणो जनाँश्च प्रीत्या रक्षन्त्युपदिशन्ति, तेऽस्मिन् संसारे सौभाग्यवन्तो भवन्ति॥६॥
Subject
राजपुरुषैः किं कर्त्तव्यमित्याह॥
Anvaya
हे अङ्ग! ये बर्हिषो यवमन्तः कृषीवला नमउक्तिं यजन्त्येषां पदार्थानामिहेह त्वं भोजनानि कृणुहि, यथैते यवं चिद् वियूयानुपूर्वं दान्ति, तथा त्वमेषां विभागेन कुवित् प्रापय यस्य ते तवैष योनिरस्ति, तं त्वाऽभ्रिभ्यां त्वा सरस्वत्यै त्वेन्द्राय सुत्राम्णे त्वा तेजसे त्वा वीर्याय त्वा बलाय ये यजन्ति, यैर्वा त्वमुपयामगृहीतोऽसि तैस्त्वं विहर॥६॥