Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 59

95 Mantra
19/59
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- निचृतज्जगती Swara- निषादः
Mantra with Swara
अग्नि॑ष्वात्ताः पितर॒ऽएह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन॥५९॥

अग्नि॑ष्वात्ताः। अग्नि॑ष्वात्ता॒ इत्यग्नि॑ऽस्वात्ताः। पि॒त॒रः॒। आ। इ॒ह। ग॒च्छ॒त॒। सदः॑सद॒ इति॒ सदः॑ऽसदः। स॒द॒त॒। सु॒प्र॒णी॒त॒यः॒। सु॒प्र॒णी॒त॒य॒ इति॑ सुऽप्रनीतयः। अ॒त्त। ह॒वीषि॑। प्रय॑ता॒नीति॒ प्रऽय॑तानि। ब॒र्हिषि॑। अथ॑। र॒यिम्। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। द॒धा॒त॒न॒ ॥५९ ॥

Mantra without Swara
अग्निष्वात्ताः पितरऽएह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवीँषि प्रयतानि बर्हिष्यथा रयिँ सर्ववीरन्दधातन् ॥

अग्निष्वात्ताः। अग्निष्वात्ता इत्यग्निऽस्वात्ताः। पितरः। आ। इह। गच्छत। सदःसद इति सदःऽसदः। सदत। सुप्रणीतयः। सुप्रणीतय इति सुऽप्रनीतयः। अत्त। हवीषि। प्रयतानीति प्रऽयतानि। बर्हिषि। अथ। रयिम्। सर्ववीरमिति सर्वऽवीरम्। दधातन॥५९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निष्वात्ताः) अधीताग्निविद्याः (पितरः) पालकाः (आ) (इह) अस्मिन् वर्त्तमाने काले विद्याप्रचाराय (गच्छत) (सदःसदः) सीदन्ति यस्मिन् यस्मिन् तत्तद् गृहम् (सदत) (सुप्रणीतयः) शोभना प्रगता नीतिर्न्यायो येषान्ते (अत्त) अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः (हवींषि) अत्तुमर्हाण्यन्नादीनि (प्रयतानि) प्रयत्नेन साधितानि (बर्हिषि) उत्तमे व्यवहारे (अथ) अत्र निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (रयिम्) धनम् (सर्ववीरम्) सर्वे वीरा यस्मात् प्राप्यन्ते तम् (दधातन) धरत॥५९॥
Essence
ये विद्वांस उपदेशाय गृहङ्गृहं प्रति गत्वाऽऽगत्य च सत्यं धर्मं प्रचारयन्ति, ते गृहस्थैः श्रद्धया दत्तान्यन्नपानादीनि सेवन्ताम्, सर्वाञ्छरीरात्मबलयोग्यान् पुरुषार्थिनः कृत्वा श्रीमन्तः कुर्वन्तु॥५९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सुप्रणीतयोऽग्निष्वात्ताः पितरो! यूयमिहागच्छत सदःसदः सदत, प्रयतानि हवींष्यत्ताऽथ बर्हिषि स्थित्वाऽस्मदर्थं सर्ववीरं रयिं दधातन॥५९॥