Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 56

95 Mantra
19/56
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ऽअवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑। ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्तऽइ॒हाग॑मिष्ठाः॥५६॥

आ। अ॒हम्। पि॒तॄन्। सु॒वि॒दत्रा॒निति॑ सुऽवि॒दत्रा॑न्। अ॒वि॒त्सि॒। नपा॑तम्। च॒। वि॒क्रम॑ण॒मिति॑ वि॒ऽक्रम॑णम्। च॒। विष्णोः॑। ब॒र्हि॒षद॒ इति॑ बर्हि॒ऽसदः॑। ये। स्व॒धया॑। सु॒तस्य॑। भज॑न्त। पि॒त्वः। ते। इ॒ह। आग॑मिष्ठा॒ इत्याऽग॑मिष्ठाः ॥५६ ॥

Mantra without Swara
आहम्पितऋृन्सुविदत्राँऽअवित्सि नपातञ्च विक्रमणञ्च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्तऽइहागमिष्ठाः ॥

आ। अहम्। पितॄन्। सुविदत्रानिति सुऽविदत्रान्। अवित्सि। नपातम्। च। विक्रमणमिति विऽक्रमणम्। च। विष्णोः। बर्हिषद इति बर्हिऽसदः। ये। स्वधया। सुतस्य। भजन्त। पित्वः। ते। इह। आगमिष्ठा इत्याऽगमिष्ठाः॥५६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) (अहम्) (पितॄन्) जनकान् (सुविदत्रान्) सुष्ठु विविधानां सुखानां दातॄन् (अवित्सि) विद्मि (नपातम्) न विद्यते पातो यस्य तम् (च) (विक्रमणम्) विक्रमन्ते यस्मिन् जगति तत् (च) (विष्णोः) वेवेष्टि चराचरं जगत् तस्येश्वरस्य (बर्हिषदः) उत्तम आसने सीदन्ति ते (ये) (स्वधया) अन्नेन (सुतस्य) निष्पादितस्य (भजन्त) भजन्ते सेवन्ते (पित्वः) सुरभिपानम् (ते) (इह) (आगमिष्ठाः) आगच्छन्तु। अत्र लोडर्थे लुङ् पुरुषवचनव्यत्ययः॥५६॥
Essence
ये पितरो विद्यासुशिक्षां कुर्वन्ति कारयन्ति च, ते पुत्रैः कन्याभिश्च सम्यक् सेवनीयाः॥५६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
ये बर्हिषदः पितर इह स्वधया सुतस्य पित्वश्चाभजन्त सेवन्ते, त आगमिष्ठा आगच्छन्तु, य इह विष्णोर्नपातं विक्रमणं च विदन्ति, तान् सुविदत्रान् पितॄनहमवित्सि॥५६॥