Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 55

95 Mantra
19/55
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
बर्हि॑षदः पितरऽऊ॒त्यर्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्। तऽआग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शंयोर॑र॒पो द॑धात॥५५॥

बर्हि॑षदः। बर्हि॑सद॒ इति॒ बर्हिऽसदः। पि॒त॒रः॒। ऊ॒ती। अ॒र्वाक्। इ॒मा। वः॒। ह॒व्या। च॒कृ॒म॒। जु॒षध्व॑म्। ते। आ। ग॒त॒। अव॑सा। शन्त॑मे॒नेति॒ शम्ऽत॑मेन। अथ॑। नः॒। शम्। योः। अ॒र॒पः। द॒धा॒त॒ ॥५५ ॥

Mantra without Swara
बर्हिषदः पितरऽऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । तऽआगतावसा शन्तमेनाथा नः शँयोररपो दधात ॥

बर्हिषदः। बर्हिसद इति बर्हिऽसदः। पितरः। ऊती। अर्वाक्। इमा। वः। हव्या। चकृम। जुषध्वम्। ते। आ। गत। अवसा। शन्तमेनेति शम्ऽतमेन। अथ। नः। शम्। योः। अरपः। दधात॥५५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बर्हिषदः) ये बर्हिषि उत्तमायां सभायां सीदन्ति (पितरः) न्यायेन पालकाः (ऊती) ऊत्या रक्षणादिक्रियया (अर्वाक्) पश्चात् (इमा) इमानि (वः) युष्मभ्यम् (हव्या) अत्तुमर्हाणि (चकृम) संस्कृतानि कुर्याम। अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः। (जुषध्वम्) सेवध्वम् (ते) (आ) (गत) गच्छत (अवसा) रक्षाद्येन (शन्तमेन) अतिशयितं शं सुखं तेन (अथ) अत्र निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (नः) अस्मभ्यम् (शम्) सुखम् (योः) दूरीकरणे (अरपः) अविद्यमानं पापं यस्मिन् तत् सत्याचरणम्। रपो रिप्रमिति पापनामनी भवतः॥ (निरु॰४.२९) (दधात)॥५५॥
Essence
येषां पितॄणां सेवां सन्तानाः कुर्युस्ते स्वापत्येषु सुशिक्षया सुशीलतां धारयेयुः॥५५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे बर्हिषदः पितरः! वयमर्वाग्येभ्यो व ऊतीमा हव्या चकृम, तानि यूयं जुषध्वम्, ते शन्तमेनावसा सहागत। अथ नः शमरपश्च दधात दुःखं च योः॥५५॥