Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 53

95 Mantra
19/53
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑। व॒न्वन्नवा॑तः परि॒धीँ१ऽरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः॥५३॥

त्वया॑। हि। नः॒। पि॒तरः॑। सो॒म॒। पूर्वे॑। कर्मा॑णि। च॒क्रुः। प॒व॒मा॒न॒। धीराः॑। व॒न्वन्। अवा॑तः। प॒रि॒धीनिति॑ परि॒ऽधीन्। अप॑। ऊ॒र्णु॒। वी॒रेभिः॑। अश्वैः॑। म॒घवेति॑ म॒घऽवा॑। भ॒व॒। नः॒ ॥५३ ॥

Mantra without Swara
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥

त्वया। हि। नः। पितरः। सोम। पूर्वे। कर्माणि। चक्रुः। पवमान। धीराः। वन्वन्। अवातः। परिधीनिति परिऽधीन्। अप। ऊर्णु। वीरेभिः। अश्वैः। मघवेति मघऽवा। भव। नः॥५३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वया) विदुषा (हि) खलु (नः) अस्माकम् (पितरः) पित्रध्यापकादयः (सोम) ऐश्वर्यसम्पन्न (पूर्वे) प्राचीना वृद्धाः (कर्माणि) (चक्रुः) कृतवन्तः (पवमान) पवित्र शुद्धकारक (धीराः) धीमन्तः (वन्वन्) धर्मं सेवमानः (अवातः) अविद्यमानो वातो हिंसनं यस्य (परिधीन्) यत्र परितः सर्वतो धीयन्ते तान् (अप) दूरीकरणे (ऊर्णु) आच्छादय (वीरेभिः) वीरैः (अश्वैः) तुरङ्गैः (मघवा) प्रशंसितधनयुक्त (भव) अत्र द्व्यचोऽतस्तिङः। [अष्टा॰६.३.१३५] इति दीर्घः। (नः) अस्माकम्॥५३॥
Essence
मनुष्याः स्वेषां धार्मिकाणां पितॄणामनुकरणं कृत्वा शत्रून्निवार्य्य स्वसेनाङ्गप्रशंसायुक्तास्सन्तः सुखिनः स्युः॥५३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे पवमान सोम! त्वया सह नः पूर्वे धीराः पितरो यानि धर्म्याणि कर्माणि चक्रुस्तानि हि वयमप्यनुतिष्ठेम। अवातो वन्वन् त्वं वीरेभिरश्वैश्च सह नः शत्रून् परिधीनपोर्णु मघवा च भव॥५३॥