Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 5

95 Mantra
19/5
Devata- सोमो देवता Rishi- आभूतिर्ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ऽइन्द्रि॒यꣳ सुर॑या॒ सोमः॑ सु॒तऽआसु॑तो॒ मदा॑य। शु॒क्रेण॑ देव दे॒वताः॑ पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि॥५॥

ब्रह्म॑। क्ष॒त्रम्। प॒व॒ते॒। तेजः॑। इ॒न्द्रि॒यम्। सुर॑या। सोमः॑। सु॒तः। आसु॑त॒ इत्याऽसु॑तः। मदा॑य। शु॒क्रेण। दे॒व॒। दे॒वताः॑। पि॒पृ॒ग्धि॒। रसे॑न। अन्न॑म्। यज॑मानाय। धे॒हि॒ ॥५ ॥

Mantra without Swara
ब्रह्म क्षत्रम्पवते तेजऽइन्द्रियँ सुरया सोमः सुतऽआसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि रसेनान्नँयजमानाय धेहि ॥

ब्रह्म। क्षत्रम्। पवते। तेजः। इन्द्रियम्। सुरया। सोमः। सुतः। आसुत इत्याऽसुतः। मदाय। शुक्रेण। देव। देवताः। पिपृग्धि। रसेन। अन्नम्। यजमानाय। धेहि॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ब्रह्म) विद्वत्कुलम् (क्षत्रम्) न्यायकारिक्षत्रियकुलम् (पवते) पवित्रीकरोति (तेजः) प्रागल्भ्यम् (इन्द्रियम्) मनआदिकम् (सुरया) या सूयते सा सुरा तया (सोमः) ओषधिरसः (सुतः) सम्पादितः (आसुतः) समन्ताद् रोगनिवारणे सेवितः (मदाय) हर्षाय (शुक्रेण) आशु शुद्धिकरेण (देव) सुखप्रदातः (देवताः) देवा एव देवतास्ताः (पिपृग्धि) प्रीणीहि (रसेन) (अन्नम्) भोज्यम् (यजमानाय) सुखप्रदात्रे (धेहि) धर॥५॥
Essence
नात्र केनचिन्मनुष्येण नीरसमन्नमत्तव्यम्, सदा विद्याशौर्यबलबुद्धिवर्द्धनाय महौषधिसारास्सेवनीयाः॥५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे देव विद्वन्! यः शुक्रेण मदाय सुरया सुत आसुतः सोमस्तेज इन्द्रियं ब्रह्म क्षत्रं च पवते, तेन रसेनान्नं यजमानाय धेहि, देवताः पिपृग्धि॥५॥