Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 49

95 Mantra
19/49
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उदी॑रता॒मव॑र॒ऽउत्परा॑स॒ऽउन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ यऽई॒युर॑वृ॒काऽऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु॥४९॥

उत्। ई॒र॒ता॒म्। अव॑रे। उत्। परा॑सः। उत्। म॒ध्य॒माः। पि॒तरः॑। सो॒म्यासः॑। असु॑म्। ये। ई॒युः। अ॒वृ॒काः। ऋ॒त॒ज्ञा इत्यृ॑त॒ऽज्ञाः। ते। नः॒। अ॒व॒न्तु॒। पि॒तरः॑। हवे॑षु ॥४९ ॥

Mantra without Swara
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुँयऽईयुरवृकाऽऋतज्ञास्ते नोवन्तु पितरो हवेषु ॥

उत्। ईरताम्। अवरे। उत्। परासः। उत्। मध्यमाः। पितरः। सोम्यासः। असुम्। ये। ईयुः। अवृकाः। ऋतज्ञा इत्यृतऽज्ञाः। ते। नः। अवन्तु। पितरः। हवेषु॥४९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (ईरताम्) प्रेरताम् (अवरे) अर्वाचीनाः (उत्) (परासः) प्रकृष्टाः (उत्) (मध्यमाः) मध्ये भवाः (पितरः) पालकाः (सोम्यासः) सौम्यगुणसम्पन्नाः (असुम्) प्राणम् (ये) (ईयुः) प्राप्नुयुः (अवृकाः) अविद्यमानाः वृकाश्चौरा येषु ते (ऋतज्ञाः) ये ऋतं सत्यं जानन्ति (ते) (नः) अस्मान् (अवन्तु) रक्षन्तु (पितरः) रक्षितारः (हवेषु) संग्रामादिषु व्यवहारेषु॥४९॥
Essence
ये जीवन्तो निकृष्टमध्यमोत्तमाः स्तेयादिदोषरहिता विदितवेदितव्या अधिगतयाथातथ्या विद्वांसस्सन्ति, ते विद्याभ्यासोपदेशाभ्यां सत्यधर्मग्राहकत्वेन बाल्यावस्थायां विवाहनिषेधेन सर्वाः प्रजाः पालयन्तु॥४९॥
Subject
पितृभिः किम्भूतैः किं कार्य्यमित्याह॥
Anvaya
हे मनुष्याः! येऽवृका ऋतज्ञाः पितरो हवेष्वसुमुदीयुस्ते न उदवन्तु, ये सोम्यासोऽवरे परासो मध्यमाः पितरसन्ति, तेऽस्मान् हवेषूदीरताम्॥४९॥