Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 45

95 Mantra
19/45
Devata- पितरो देवताः Rishi- वैखानस ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑। तेषां॑ लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम्॥४५॥

ये। स॒मा॒नाः। सम॑नस॒ इति॒ सऽम॑नसः। पि॒तरः॑। य॒म॒राज्य॒ इति॑ यम॒ऽराज्ये॑। तेषा॑म्। लो॒कः। स्व॒धा। नमः॑। य॒ज्ञः। दे॒वेषु॑। क॒ल्प॒ता॒म् ॥४५ ॥

Mantra without Swara
ये समानाः समनसः पितरो यमराज्ये । तेषाँलोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥

ये। समानाः। समनस इति सऽमनसः। पितरः। यमराज्य इति यमऽराज्ये। तेषाम्। लोकः। स्वधा। नमः। यज्ञः। देवेषु। कल्पताम्॥४५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (समानाः) सदृशाः (समनसः) समानं मनो विज्ञानं येषां ते (पितरः) प्रजापालकाः (यमराज्ये) यमस्य सभाधीशस्य राष्ट्रे (तेषाम्) (लोकः) सभादर्शनं वा (स्वधा) अन्नम् (नमः) सत्करणम् (यज्ञः) संगन्तव्यो न्यायः (देवेषु) विद्वत्सु (कल्पताम्) समर्थितोऽस्तु॥४५॥
Essence
यत्र बहुदर्शिनामन्नाद्यैश्वर्युक्तानां सज्जनैः सत्कृतानां धर्मैकनिष्ठानां विदुषां सभा सत्यं न्यायं करोति, तत्रैव सर्वे मनुष्या ऐश्वर्ये सुखे च निवासं कुर्वन्ति॥४५॥
Subject
कुत्र जनाः सुखं निवसन्तीत्याह॥
Anvaya
ये समानाः समनसः पितरो यमराज्ये सन्ति, तेषां लोकः स्वधा नमो यज्ञश्च देवेषु कल्पताम्॥४५॥