Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 37

95 Mantra
19/37
Devata- सरस्वती देवता Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगष्टिः Swara- मध्यमः
Mantra with Swara
पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः। प॒वित्रे॑ण श॒तायु॑षा। पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः। प॒वित्रे॑ण श॒तायु॑षा विश्व॒मायु॒र्व्यश्नवै॥३७॥

पु॒नन्तु॑। मा॒। पि॒तरः॑। सो॒म्यासः॑। पु॒नन्तु॑। मा॒। पि॒ता॒म॒हाः। पु॒नन्तु॑। प्रपि॑तामहा॒ इति॒ प्रऽपि॑तामहाः। प॒वित्रे॑ण। श॒तायु॒षेति॑ श॒तऽआ॑युषा। पु॒नन्तु॑। मा॒। पि॒ता॒म॒हाः। पु॒नन्तु॑। प्रपि॑तामहा॒ इति॒ प्रऽपि॑तामहाः। प॒वित्रे॑ण। श॒तायु॒षेति॑ श॒तऽआ॑युषा। विश्व॑म्। आयुः॑। वि। अ॒श्न॒वै॒ ॥३७ ॥

Mantra without Swara
पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः पवित्रेण शतायुषा । पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै ॥

पुनन्तु। मा। पितरः। सोम्यासः। पुनन्तु। मा। पितामहाः। पुनन्तु। प्रपितामहा इति प्रऽपितामहाः। पवित्रेण। शतायुषेति शतऽआयुषा। पुनन्तु। मा। पितामहाः। पुनन्तु। प्रपितामहा इति प्रऽपितामहाः। पवित्रेण। शतायुषेति शतऽआयुषा। विश्वम्। आयुः। वि। अश्नवै॥३७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पुनन्तु) अशुद्धाद् व्यवहारान्निवर्त्य शुद्धे प्रवर्त्य पवित्रीकुर्वन्तु (मा) माम् (पितरः) ज्ञानप्रदानेन पालकाः (सोम्यासः) सोमे ऐश्वर्ये भवाः सोमवच्छान्ता वा (पुनन्तु) (मा) (पितामहाः) (पुनन्तु) (प्रपितामहाः) (पवित्रेण) शुद्धाचरणयुक्तेन (शतायुषा) शतं वर्षाणि यस्मिन्नायुषि तेन (पुनन्तु) (मा) (पितामहाः) (पुनन्तु) (प्रपितामहाः) (पवित्रेण) ब्रह्मचर्य्यादिधर्माचरणयुक्तेन (शतायुषा) (विश्वम्) पूर्णम् (आयुः) जीवनम् (वि) विविधार्थे (अश्नवै) प्राप्नुयाम्। लोट्प्रयोगोऽयम्॥३७॥
Essence
पितृपितामहप्रपितामहैः स्वकन्याः पुत्रांश्च ब्रह्मचर्यसुशिक्षाधर्मोपदेशेन संयोज्य विद्यासुशीलयुक्ताः कार्याः सन्तानैः सेवानुकूलाचरणाभ्यां सर्वे नित्यं सेवनीयाः। एवं परस्परोपकारेण गृहाश्रमे आनन्देन वर्त्तितव्यम्॥३७॥
Subject
पुनस्तदेवाह॥
Anvaya
सोम्यासः पितरः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः पितामहाः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः प्रपितामहाः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः पितामहाः पवित्रेण शतायुषा मा पुनन्तु, सोम्यासः प्रपितामहाः पवित्रेण शतायुषा मा पुनन्तु, यतोऽहं विश्वमायुर्व्यश्नवै प्राप्नुयाम्॥३७॥