Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 36

95 Mantra
19/36
Devata- पितरो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- निचृदष्टिः Swara- मध्यमः
Mantra with Swara
पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पिताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॒ प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॒ पित॑रः॒ शुन्ध॑ध्वम्॥३६॥

पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। पि॒ता॒म॒हेभ्यः॑। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। प्रपि॑तामहेभ्य॒ इति॒ प्रऽपि॑तामहेभ्यः। स्व॒धा॒यिभ्य॒ इति॑ स्वधा॒यिऽभ्यः॑। स्व॒धा। नमः॑। अक्ष॑न्। पि॒तरः॑। अमी॑मदन्त। पि॒तरः॑। अती॑तृपन्त। पि॒तरः॑। पित॑रः। शुन्ध॑ध्वम् ॥३६ ॥

Mantra without Swara
पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन्पितरःऽअमीमदन्त पितरोतीतृपन्त पितरः पितरः शुन्धध्वम् ॥

पितृभ्य इति पितृऽभ्यः। स्वधायिभ्य इति स्वधायिऽभ्यः। स्वधा। नमः। पितामहेभ्यः। स्वधायिभ्य इति स्वधायिऽभ्यः। स्वधा। नमः। प्रपितामहेभ्य इति प्रऽपितामहेभ्यः। स्वधायिभ्य इति स्वधायिऽभ्यः। स्वधा। नमः। अक्षन्। पितरः। अमीमदन्त। पितरः। अतीतृपन्त। पितरः। पितरः। शुन्धध्वम्॥३६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पितृभ्यः) पालकेभ्यो जनकाध्यापकादिभ्यः (स्वधायिभ्यः) ये स्वधायिभ्यः ये स्वधामुदकमन्नं वैतुं प्राप्तुं शीलास्तेभ्यः। स्वधेत्युदकनामसु पठितम्॥ (निघं॰१.१२) स्वधेत्यन्ननामसु पठितम्॥ (निघं॰२.७) (स्वधा) अन्नम् (नमः) सत्करणम् (पितामहेभ्यः) ये पितॄणां पितरस्तेभ्यः (स्वधायिभ्यः) (स्वधा) स्वान् दधाति यया सा क्रिया (नमः) नमनम् (प्रपितामहेभ्यः) ये पितामहानां पितरस्तेभ्यः (स्वधायिभ्यः) (स्वधा) स्वेन धारिता सेवा (नमः) अन्नादिकम् (अक्षन्) अदन्तु। योऽद्धातोः स्थाने ‘घस्लृ’ आदेशस्तस्य लुङि रूपम् (पितरः) ज्ञानिनः (अमीमदन्त) अतिशयेन हर्षयत (पितरः) (अतीतृपन्त) अतिशयेन तर्पयत (पितरः) (पितरः) (शुन्धध्वम्) पवित्रीकुरुत॥३६॥
Essence
हे पुत्रशिष्यस्नुषादयो जनाः! यूयमुत्तमैरन्नादिभिः पित्रादीन् वृद्धान् सततं सत्कुरुत, पितरो युष्मानप्यानन्दयेयुः। यथा मातापित्रादयो बाल्यावस्थायां युष्मान् सेवन्ते, तथैव यूयं वृद्धावस्थायां तेषां सेवां यथावत् कुरुत॥३६॥
Subject
पित्रपत्यादिभिरितरेतरं कथं वर्त्तितव्यमित्याह॥
Anvaya
अस्माभिः पुत्रशिष्यादिमनुष्यैर्येभ्यः स्वधायिभ्यः पितृभ्यः स्वधा नमः स्वधायिभ्यः पितामहेभ्यः स्वधा नमः स्वधायिभ्यः प्रपितामहेभ्यः स्वधा नमः क्रियते। हे पितरस्ते भवन्तोऽस्मत्सुसंस्कृतान्यन्नादीन्यक्षन्। हे पितरो! यूयमानन्दिता भूत्वाऽस्मानमीमदन्त। हे पितरो! यूयं तृप्ता भूत्वास्मानतीतृपन्त। हे पितरो! यूयं शुद्धा भूत्वाऽस्मान् शुन्धध्वम्॥३६॥