Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 35

95 Mantra
19/35
Devata- सोमो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यदत्र॑ रि॒प्तꣳ र॒सिनः॑ सु॒तस्य॒ यदिन्द्रो॒ऽअपि॑ब॒च्छची॑भिः। अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोम॒ꣳ राजा॑नमि॒ह भ॑क्षयामि॥३५॥

यत्। अत्र॑। रि॒प्तम्। र॒सिनः॑। सु॒तस्य॑। यत्। इन्द्रः॑। अपि॑बत्। शची॑भिः। अ॒हम्। तत्। अ॒स्य॒। मन॑सा। शि॒वेन॑। सोम॑म्। राजा॑नम्। इ॒ह। भ॒क्ष॒या॒मि॒ ॥३५ ॥

Mantra without Swara
यदत्र रिप्तँ रसिनः सुतस्य यदिन्द्रोऽअपिबच्छचीभिः । अहन्तदस्य मनसा शिवेन सोमँ राजानमिह भक्षयामि॥

यत्। अत्र। रिप्तम्। रसिनः। सुतस्य। यत्। इन्द्रः। अपिबत्। शचीभिः। अहम्। तत्। अस्य। मनसा। शिवेन। सोमम्। राजानम्। इह। भक्षयामि॥३५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्) (अत्र) अस्मिन् संसारे (रिप्तम्) लिप्तं प्राप्तम्। अत्र लकारस्य रेफादेशः (रसिनः) प्रशस्त रसो विद्यते यस्मिंस्तस्य (सुतस्य) निष्पादितस्य (यत्) यम् (इन्द्रः) सूर्यः (अपिबत्) (शचीभिः) क्रियाभिः। शचीति कर्मनामसु पठितम्॥ (निघं॰२.१) (अहम्) (तत्) तम् (अस्य) (मनसा) (शिवेन) मङ्गलमयेन (सोमम्) ओषधीरसम् (राजानम्) देदीप्यमानम् (इह) (भक्षयामि)॥३५॥
Essence
हे मनुष्याः! यथा सूर्यः स्वकिरणैर्जलान्याकृष्य वर्षित्वा सर्वान् सुखयति, तथैवानुकूलाभिः क्रियाभी रसान् संसेव्य बलमुन्नीय यशोवृष्ट्या सर्वान् यूयमानन्दयत॥३५॥
Subject
मनुष्यैः सर्व आनन्दयितव्य इत्याह॥
Anvaya
हे मनुष्याः! यथाहमिहास्य सुतस्य रसिनो यदत्र रिप्तमस्तीन्द्रश्शचीभिर्यदपिबत्, तद् राजानं सोमं च शिवेन मनसा भक्षयामि, तथा यूयमपि भक्षयत॥३५॥