Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 34

95 Mantra
19/34
Devata- सोमो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑। इ॒मं तꣳ शु॒क्रं मधु॑मन्त॒मिन्दु॒ꣳ सोम॒ꣳ राजा॑नमि॒ह भ॑क्षयामि॥३४॥

यम्। अ॒श्विना॑। नमु॑चेः। आ॒सु॒रात्। अधि॑। सर॑स्वती। असु॑नोत्। इ॒न्द्रि॒याय॑। इ॒मम्। तम्। शु॒क्रम्। मधु॑मन्तम्। इन्दु॑म्। सोम॑म्। राजा॑नम्। इ॒ह। भ॒क्ष॒या॒मि॒ ॥३४ ॥

Mantra without Swara
यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय । इमन्तँ शुक्रम्मधुमन्तमिन्दुँ सोमँ राजानमिह भक्षयामि ॥

यम्। अश्विना। नमुचेः। आसुरात्। अधि। सरस्वती। असुनोत्। इन्द्रियाय। इमम्। तम्। शुक्रम्। मधुमन्तम्। इन्दुम्। सोमम्। राजानम्। इह। भक्षयामि॥३४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यम्) (अश्विना) सभासेनेशौ (नमुचेः) यो जलं न मुञ्चति तस्मात् (आसुरात्) असुरस्य मेघस्यायं तस्मात् (अधि) (सरस्वती) विदुषी स्त्री (असुनोत्) सुनोति (इन्द्रियाय) धनायेन्द्रियबलाय वा (इमम्) (तम्) (शुक्रम्) शीघ्रं बलकरम् (मधुमन्तम्) प्रशस्तमधुरादिगुणयुक्तम् (इन्दुम्) परमैश्वर्यकारकम् (सोमम्) पुरुषार्थे प्रेरकम् (राजानम्) प्रकाशमानम् (इह) अस्मिन् संसारे (भक्षयामि) भुञ्जे भोजयामि वा॥३४॥
Essence
ये मनुष्याः सारान्नरसभोजिनो भवन्ति, ते बलिष्ठेन्द्रियाः सन्तः सदानन्दं भुञ्जते॥३४॥
Subject
कीदृशा जनाः सुखिनो भवन्तीत्याह॥
Anvaya
मनुष्याः! इहेन्द्रियाय यं नमुचेरासुरादधि शुक्रं मधुमन्तमिन्दुं राजानं सोमं सरस्वत्यसुनोदश्विना सुनुतां तमिममहं भक्षयामि॥३४॥