Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 33

95 Mantra
19/33
Devata- इन्द्रो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यस्ते॒ रसः॒ सम्भृ॑त॒ऽओष॑धीषु॒ सोम॑स्य शुष्मः॒ सुर॑या सु॒तस्य॑। तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम्॥३३॥

यः। ते॒। रसः॑। सम्भृ॑त॒ इति॒ सम्ऽभृ॑तः। ओष॑धीषु। सोम॑स्य। शुष्मः॑। सुर॑या। सु॒तस्य॑। तेन॑। जि॒न्व॒। यज॑मानम्। मदे॑न। सर॑स्वतीम्। अ॒श्विनौ॑। इन्द्र॑म्। अ॒ग्निम् ॥३३ ॥

Mantra without Swara
यस्ते रसः सम्भृत ओषधीषु सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानम्मदेन सरस्वतीमश्विनाविन्द्रमग्निम् ॥

यः। ते। रसः। सम्भृत इति सम्ऽभृतः। ओषधीषु। सोमस्य। शुष्मः। सुरया। सुतस्य। तेन। जिन्व। यजमानम्। मदेन। सरस्वतीम्। अश्विनौ। इन्द्रम्। अग्निम्॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यः) (ते) तव (रसः) आनन्दः (सम्भृतः) सम्यग्धृतः (ओषधीषु) सोमलतादिषु (सोमस्य) अशुंमदादिसंज्ञस्य चतुर्विंशतिधा भिद्यमानस्य (शुष्मः) शुष्मं बलं विद्यते यस्मिन् सः (सुरया) शोभनदानशीलया स्त्रिया (सुतस्य) निष्पादितस्य (तेन) (जिन्व) प्रीणीहि (यजमानम्) सर्वेभ्यः सुखं ददमानम् (मदेन) आनन्दप्रदेन (सरस्वतीम्) प्रशस्तविद्यायुक्तां स्त्रियम् (अश्विनौ) विद्याव्याप्तावध्यापकोपदेशकौ (इन्द्रम्) ऐश्वर्ययुक्तं सभासेनेशम् (अग्निम्) पावकवच्छत्रुदाहकं योद्धारम्॥३३॥
Essence
ये विद्वांसो जना महौषधिसारं स्वयं संसेव्यान्यान् सेवयित्वा सततमानन्दं वर्द्धयेयुस्ते धन्याः सन्ति॥३३॥
Subject
किम्भूता जना धन्या इत्याह॥
Anvaya
हे विद्वन्! यस्त ओषधीषु वर्त्तमानस्य सुतस्य सोमस्य सुरया सम्भृतः शुष्मो रसोऽस्ति, तेन मदेन यजमानं सरस्वतीमश्विनाविन्द्रमग्निञ्च जिन्व॥३३॥