Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 32

95 Mantra
19/32
Devata- इन्द्रो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सुरा॑वन्तं बर्हि॒षद॑ꣳ सु॒वीरं॑ य॒ज्ञꣳ हि॑न्वन्ति महि॒षा नमो॑भिः। दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः॥३२॥

सुरा॑वन्त॒मिति॒ सुरा॑ऽवन्तम्। ब॒र्हि॒षद॑म्। ब॒र्हि॒षद॒मिति॑ बर्हि॒ऽसद॑म्। सु॒वीर॒मिति॑ सु॒ऽवीर॑म्। य॒ज्ञम्। हि॒न्व॒न्ति॒। म॒हि॒षाः। नमो॑भि॒रिति॒ नमः॑ऽभिः। दधा॑नाः। सोम॑म्। दि॒वि। दे॒वता॑सु। मदे॑म। इन्द्र॑म्। यज॑मानाः। स्व॒र्का इति॑ सुऽअ॒र्काः ॥३२ ॥

Mantra without Swara
सुरावन्तम्बर्हिषदँ सुवीरँयज्ञँ हिन्वन्ति महिषा नमोभिः । दधानाः सोमन्दिवि देवतासु मदेमेन्द्रँयजमानाः स्वर्काः ॥

सुरावन्तमिति सुराऽवन्तम्। बर्हिषदम्। बर्हिषदमिति बर्हिऽसदम्। सुवीरमिति सुऽवीरम्। यज्ञम्। हिन्वन्ति। महिषाः। नमोभिरिति नमःऽभिः। दधानाः। सोमम्। दिवि। देवतासु। मदेम। इन्द्रम्। यजमानाः। स्वर्का इति सुऽअर्काः॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सुरावन्तम्) सुराः प्रशस्ताः सोमा विद्यन्ते यस्मिंस्तम् (बर्हिषदम्) यो बर्हिष्याकाशे सीदति तम् (सुवीरम्) शोभना वीराः शरीरात्मबलयुक्ता यस्मात् तम् (यज्ञम्) (हिन्वन्ति) वर्धयन्ति (महिषाः) महान्तः पूजनीयाः (नमोभिः) अन्नैः (दधानाः) धरन्तः (सोमम्) ऐश्वर्य्यम् (दिवि) शुद्धे व्यवहारे (देवतासु) विद्वत्सु (मदेम) हर्षेम (इन्द्रम्) परमैश्वर्ययुक्तञ्जनम् (यजमानाः) ये यजन्ति ते विद्वांसः (स्वर्काः) शोभना अर्का अन्नादयः पदार्था येषान्ते॥३२॥
Essence
ये मनुष्या अन्नाद्यैश्वर्य्यं सञ्चित्य तेन विदुषः सन्तोष्य सद्विद्यासु शिक्षाः संगृह्य सर्वहितैषिणः स्युस्तेऽत्र पुत्रकलत्रानन्दमाप्नुवन्तु॥३२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! ये महिषास्स्वर्कां यजमाना नमोभिः सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति, ते दिवि देवतासु सोममिन्द्रं दधानांः सन्तो वयञ्च मदेम॥३२॥