Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 30

95 Mantra
19/30
Devata- यज्ञो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑प्नोति॒ दक्षि॑णाम्। दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते॥३०॥

व्र॒तेन॑। दी॒क्षाम्। आ॒प्नो॒ति॒। दी॒क्षया॑। आ॒प्नो॒ति॒। दक्षि॑णाम्। दक्षि॑णा। श्र॒द्धाम्। आ॒प्नो॒ति॒। श्र॒द्धया॑। स॒त्यम्। आ॒प्य॒ते॒ ॥३० ॥

Mantra without Swara
व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् । दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥

व्रतेन। दीक्षाम्। आप्नोति। दीक्षया। आप्नोति। दक्षिणाम्। दक्षिणा। श्रद्धाम्। आप्नोति। श्रद्धया। सत्यम्। आप्यते॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(व्रतेन) सत्यभाषणब्रह्मचर्य्यादिनियमेन (दीक्षाम्) ब्रह्मचर्यविद्यादिसुशिक्षाप्रज्ञाम् (आप्नोति) (दीक्षया) (आप्नोति) (दक्षिणाम्) प्रतिष्ठां श्रियं वा (दक्षिणा) दक्षिणया। अत्र विभक्तिलोपः। (श्रद्धाम्) श्रत्सत्यं दधाति ययेच्छया ताम्। श्रदिति सत्यनामसु पठितम्॥ (निघं॰३.१०) (आप्नोति) (श्रद्धया) (सत्यम्) सत्सु नित्येषु व्यवहारेषु वा साधुस्तं परमेश्वरं धर्मं वा (आप्यते) प्राप्यते॥३०॥
Essence
कश्चिदपि मनुष्यो विद्यासुशिक्षाश्रद्धाभिर्विना सत्यान् व्यवहारान् प्राप्तुमसत्याँश्च त्यक्तुं न शक्नोति॥३०॥
Subject
मनुष्यैः सत्यं ग्राह्यमसत्यञ्च त्याज्यमित्याह॥
Anvaya
यो बालकः कन्यका मनुष्यो वा व्रतेन दीक्षामाप्नोति, दीक्षया दक्षिणामाप्नोति, दक्षिणा श्रद्धामाप्नोति, तया श्रद्धया वा येन सत्यमाप्यते, स सुखी भवति॥३०॥