Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 3

95 Mantra
19/3
Devata- सोमो देवता Rishi- आभूतिर्ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑। वा॒योः पू॒तः प॒वित्रे॑ण प्राङ् सोमो॒ऽअति॑द्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑॥३॥

वा॒योः। पू॒तः। प॒वित्रे॑ण। प्र॒त्यङ्। सोमः॑। अतिद्रु॑त॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑। वा॒योः। पू॒तः। प॒वित्रेण॑। प्राङ्। सोमः॑। अति॑द्रुत॒ इत्यति॑ऽद्रुतः। इन्द्र॑स्य। युज्यः॑। सखा॑ ॥३ ॥

Mantra without Swara
वायोः पूतः पवित्रेण प्रत्यङ्क्सोमोऽअतिद्रुतः । इन्द्रस्य युज्यः सखा वायोः पूतः पवित्रेण प्रत्यङ्क्सोमोऽअतिद्रुतः इन्द्रस्य युज्यः सखा ॥

वायोः। पूतः। पवित्रेण। प्रत्यङ्। सोमः। अतिद्रुत इत्यतिऽद्रुतः। इन्द्रस्य। युज्यः। सखा। वायोः। पूतः। पवित्रेण। प्राङ्। सोमः। अतिद्रुत इत्यतिऽद्रुतः। इन्द्रस्य। युज्यः। सखा॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वायोः) पवनात् (पूतः) शुद्धः (पवित्रेण) शुद्धिकरेण (प्रत्यङ्) यः प्रत्यक्षमञ्चति प्राप्नोति सः (सोमः) सोमलताद्योषधिगणः (अतिद्रुतः) योऽतिद्रवति सः (इन्द्रस्य) इन्द्रियस्वामिनो जीवस्य (युज्यः) युक्तः (सखा) मित्रमिव (वायोः) शुद्धाच्छुद्धिनिमित्तात् (पूतः) निर्मलः (पवित्रेण) शुद्धिकरेण कर्मणा (प्राङ्) प्रकृष्टतयाऽञ्चति सः (सोमः) निष्पादितौषधिरसः (अतिद्रुतः) अत्यन्तं शीघ्रकारी (इन्द्रस्य) परमैश्वर्ययुक्तस्य राज्ञः (युज्यः) समाधातुमर्हः (सखा) सुहृदिव॥३॥
Essence
या ओषधयः शुद्धे स्थले जले वायौ चोत्पद्यन्ते, पूर्वापरान् रोगान् शीघ्रं निस्सारयन्ति च, ता मनुष्यैर्मित्रवत् सदा सेवनीयाः॥३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यः सोमः प्राङतिद्रुतो वायोः पवित्रेण पूत इन्द्रस्य युज्यः सखेवास्ति, यश्च सोमः प्रत्यङ्ङतिद्रुतो वायोः पवित्रेण पूत इन्द्रस्य युज्यः सखेवास्ति, तं यूयं सततं सेवध्वम्॥३॥