Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 28

95 Mantra
19/28
Devata- यज्ञो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः। छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थऽआ॑प्यते॥२८॥

यजु॑र्भिरिति॒ यजुः॑ऽभिः। आ॒प्य॒न्ते॒। ग्रहाः॑। ग्रहैः॑। स्तोमाः॑। च॒। विष्टु॑तीः। विस्तु॑तीरिति॒ विऽस्तु॑तीः। छन्दो॑भि॒रिति॒ छन्दः॑ऽभिः। उ॒क्था॒श॒स्त्राणि॑। उ॒क्थ॒श॒स्त्राणीत्यु॑क्थऽश॒स्त्राणि॑। साम्ना॑। अ॒व॒भृ॒थ इत्य॑वऽभृ॒थः। आ॒प्य॒ते॒ ॥२८ ॥

Mantra without Swara
यजुर्व्हिराप्यन्ते ग्रहा ग्रहै स्तोमाश्च विष्टुतीः । छन्दोभिरुक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥

यजुर्भिरिति यजुःऽभिः। आप्यन्ते। ग्रहः। ग्रहैः। स्तोमाः। च। विष्टुतीः। विस्तुतीरिति विऽस्तुतीः। छन्दोभिरिति छन्दःऽभिः। उक्थाशस्त्राणि। उक्थशस्त्राणीत्युक्थऽशस्त्राणि। साम्ना। अवभृथ इत्यवऽभृथः। आप्यते॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यजुर्भिः) यजन्ति सङ्गच्छन्ते यैर्यजुर्वेदविद्यावयवैस्तैः (आप्यन्ते) (ग्रहाः) यैः सर्वं क्रियाकाण्डं गृह्णन्ति ते व्यवहाराः (ग्रहैः) (स्तोमाः) पदार्थगुणप्रशंसा (च) (विष्टुतीः) विविधाश्च ताः स्तुतयश्च ताः (छन्दोभिः) गायत्र्यादिभिर्विद्वद्भिः स्तोतृभिर्वा। छन्द इति स्तोतृनामसु पठितम्॥ (निघं॰३.१६) (उक्थाशस्त्राणि) उक्थानि च तानि शस्त्राणि च। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति पूर्वपदस्य दीर्घः। (साम्ना) सामवेदेन (अवभृथः) शोधनम् (आप्यते) प्राप्यते॥२८॥
Essence
कश्चिदपि मनुष्यो वेदाभ्यासेन विना अखिलाः साङ्गोपाङ्गविद्याः प्राप्तुं नार्हति॥२८॥
Subject
सर्वे वेदमभ्यस्येयुरित्याह॥
Anvaya
हे मनुष्याः! युष्माभिर्यैर्यजुर्भिर्ग्रहा ग्रहैः स्तोमा विष्टुतीश्च छन्दोभिरुक्थाशस्त्राणि चाप्यन्ते, साम्नावभृथ आप्यते, तेषामुपयोगो यथावत् कर्त्तव्यः॥२८॥