Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 21

95 Mantra
19/21
Devata- सोमो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑। सोम॑स्य रू॒पꣳ ह॒विष॑ऽआ॒मिक्षा॒ वजि॑नं॒ मधु॑॥२१॥

धा॒नाः। क॒र॒म्भः। सक्त॑वः। प॒री॒वा॒प इति॑ परि॑ऽवा॒पः। पयः॑। दधि॑। सोम॑स्य। रू॒पम्। ह॒विषः॑। आ॒मिक्षा॑। वाजि॑नम्। मधु॑ ॥२१ ॥

Mantra without Swara
धानाः करम्भः सक्तवः परीवापः पयो दधि । सोमस्य रूपँ हविष आमिक्षा वाजिनम्मधु ॥

धानाः। करम्भः। सक्तवः। परीवाप इति परिऽवापः। पयः। दधि। सोमस्य। रूपम्। हविषः। आमिक्षा। वाजिनम्। मधु॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(धानाः) भृष्टयवादयः (करम्भः) करोति मथनं येन सः (सक्तवः) (परीवापः) परितः सर्वतो वापो बीजारोपणं यस्मिन् सः (पयः) दुग्धम् (दधि) (सोमस्य) अभिषोतुमर्हस्य (रूपम्) (हविषः) होतुमर्हस्य (आमिक्षा) दधिदुग्धमिष्टैर्निर्मिता (वाजिनम्) वाजः प्रशस्तान्यन्नानि विद्यन्ते येषु तेषामिदं सारं वस्तु (मधु) मधुरम्॥२१॥
Essence
ये पदार्थाः पुष्टिसुगन्धमधुररोगनाशकत्वगुणयुक्तात्सन्ति, ते हविः संज्ञका सन्ति॥२१॥
Subject
के पदार्था हविष्या इत्याह॥
Anvaya
हे मनुष्याः! यूयं हविषस्सोमस्य रूपं धानाः करम्भः सक्तवः परीवापः पयो दध्यामिक्षा वाजिनं मधु च विजानीत॥२१॥