Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 2

95 Mantra
19/2
Devata- सोमो देवता Rishi- भारद्वाज ऋषिः Chhand- स्वराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
परी॒तो षि॑ञ्चता सु॒तꣳ सोमो॒ यऽउ॑त्त॒मꣳ ह॒विः। द॒ध॒न्वा यो नर्यो॑ऽअ॒प्स्वन्तरा सु॒षाव॒ सोम॒मद्रि॑भिः॥२॥

परि॑। इ॒तः। सि॒ञ्च॒त॒। सु॒तम्। सोमः॑। यः। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। ह॒विः। द॒ध॒न्वान्। यः। नर्य्यः॑। अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। आ। सु॒षाव॑। सु॒षावेति॑ सु॒ऽसाव॑। सोम॑म्। अद्रि॑भि॒रित्यद्रि॑ऽभिः ॥२ ॥

Mantra without Swara
परीतो षिञ्चता सुतँ सोमो यऽउत्तमँ हविः । दधन्वा यो नर्या अप्स्वन्तरा सुषाव सोममद्रिभिः ॥

परि। इतः। सिञ्चत। सुतम्। सोमः। यः। उत्तममित्युत्ऽतमम्। हविः। दधन्वान्। यः। नर्य्यः। अप्स्वित्यप्ऽसु। अन्तः। आ। सुषाव। सुषावेति सुऽसाव। सोमम्। अद्रिभिरित्यद्रिऽभिः॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(परि) सर्वतः (इतः) प्राप्तः (सिञ्चत) अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः। (सुतम्) निष्पन्नम् (सोमः) प्रेरको विद्वान् (यः) (उत्तमम्) (हविः) अत्तुमर्हम् (दधन्वान्) धरन् सन् (यः) (नर्यः) नरेषु साधुः (अप्सु) जलेषु (अन्तः) मध्ये (आ) (सुषाव) निष्पादयेत् (सोमम्) ओषधिसारम् (अद्रिभिः) मेघैः॥२॥
Essence
मनुष्यैरुत्तमा ओषधीर्जले संस्थाप्य मथित्वाऽऽसवं निस्सार्यानेन यथायोग्यं जाठराग्निं सेवित्वा बलारोग्ये वर्द्धनीये॥२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! य य उत्तमं हविः सोम इतः स्याद्, यो नर्यो दधन्वानप्स्वन्तरासुषाव तमद्रिभिः सुतं सोमं यूयं परिसिञ्चत॥२॥