Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 15

95 Mantra
19/15
Devata- सोमो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑षिच्यते। अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रꣳ सर॑स्वत्या॥१५॥

सोम॑स्य। रू॒पम्। क्री॒तस्य॑। प॒रि॒स्रुदिति॑ परि॒ऽस्रुत्। परि॑। सि॒च्य॒ते॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। दु॒ग्धम्। भे॒ष॒जम्। इन्द्रा॑य। ऐ॒न्द्रम्। सर॑स्वत्या ॥१५ ॥

Mantra without Swara
सोमस्य रूपङ्क्रीतस्य परिस्रुत्परि षिच्यते । अश्विभ्यां दुद्ग्धं भेषजमिन्द्रायैन्द्रँ सरस्वत्या ॥

सोमस्य। रूपम्। क्रीतस्य। परिस्रुदिति परिऽस्रुत्। परि। सिच्यते। अश्विभ्यामित्यश्विऽभ्याम्। दुग्धम्। भेषजम्। इन्द्राय। ऐन्द्रम्। सरस्वत्या॥१५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सोमस्य) सोमलताद्योषधिसमूहस्य (रूपम्) उत्तमस्वरूपम् (क्रीतस्य) गृहीतस्य (परिस्रुत्) यः परितः सर्वत स्रवति प्राप्नोति स रसः (परि) सर्वतः (सिच्यते) (अश्विभ्याम्) वैदिकविद्याव्यापिभ्यां विद्वद्भ्याम् (दुग्धम्) गवादिभ्यः पयः (भेषजम्) सर्वौषधम् (इन्द्राय) ऐश्वर्येच्छुकाय (ऐन्द्रम्) इन्द्रो विद्युद्देवता यस्य तत् विज्ञानम् (सरस्वत्या) प्रशस्तविद्याविज्ञानयुक्तया पत्न्या॥१५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। सर्वाभिः कुमारीभिर्ब्रह्मचर्य्येण व्याकरणधर्म्मविद्यायुर्वेदादीनधीत्य स्वयंवरविवाहं कृत्वा प्रशस्तान्यौषधान्यौषधवदन्नव्यञ्जनानि च परिपच्य सुरसैः संयोज्य पत्यादीन् सम्भोज्य स्वयं च भुक्त्वा बलारोग्योन्नतिः सततं कार्या॥१५॥
Subject
कुमारीभिः किं कर्त्तव्यमित्याह॥
Anvaya
हे स्त्रियो! यथा सरस्वत्या विदुष्या क्रीतस्य सोमस्य परिस्रुद् रूपमश्विभ्यां दुग्धं भेषजमिन्द्रायैन्द्रं परिषिच्यते, तथा यूयमप्याचरत॥१५॥