Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 13

95 Mantra
19/13
Devata- यज्ञो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
दी॒क्षायै॑ रू॒पꣳ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि। क्र॒यस्य॑ रू॒पꣳ सोम॑स्य ला॒जाः सो॑मा॒शवो॒ मधु॑॥१३॥

दी॒क्षायै॑ रू॒पम्। शष्पा॑णि। प्रा॒य॒णीय॑स्य। प्रा॒य॒नीय॒स्येति॑ प्रऽअय॒नीय॑स्य। तोक्मा॑नि। क्र॒यस्य॑। रू॒पम्। सोम॑स्य। ला॒जाः। सो॒मा॒शव॒ इति॑ सोमऽअ॒ꣳशवः॑। मधु॑ ॥१३ ॥

Mantra without Swara
दीक्षायै रूपँ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपँ सोमस्य लाजाः सोमाँशवो मधु ॥

दीक्षायै रूपम्। शष्पाणि। प्रायणीयस्य। प्रायनीयस्येति प्रऽअयनीयस्य। तोक्मानि। क्रयस्य। रूपम्। सोमस्य। लाजाः। सोमाशव इति सोमऽअꣳशवः। मधु॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(दीक्षायै) यज्ञसाधननियमपालनाय (रूपम्) (शष्पाणि) आहत्य संशोध्य ग्राह्याणि धान्यानि (प्रायणीयस्य) प्रकृष्टं सुखं यन्ति येन व्यवहारेण तत्र भवस्य (तोक्मानि) अपत्यानि। तोक्मेत्यपत्यनामसु पठितम्॥ (निघं॰२.२) (क्रयस्य) द्रव्यविक्रयस्य (रूपम्) (सोमस्य) ओषधीरसस्य (लाजाः) प्रफुल्लिता व्रीहयः (सोमांशवः) सोमस्यांशाः (मधु) क्षौद्रम्॥१३॥
Essence
अत्रातन्वतेति क्रियापदं पूर्वमन्त्रादनुवर्त्तते। ये मनुष्या यज्ञाऽर्हाण्यपत्यानि वस्तूनि च सम्पादयन्ति, तेऽत्र सुखं लभन्ते॥१३॥
Subject
कीदृशा जनाः सुखिनो भवन्तीत्याह॥
Anvaya
हे मनुष्याः! यानि प्रायणीयस्य दीक्षायै रूपं तोक्मानि क्रयस्य रूपं शष्पाणि सोमस्य लाजाः सोमांशवो मधु च सन्ति, तानि यूयमतन्वत॥१३॥