Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 12

95 Mantra
19/12
Devata- विद्वांसो देवता Rishi- हैमवर्चिर्ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒श्विना॑। वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः॥१२॥

दे॒वाः। य॒ज्ञम्। अ॒त॒न्व॒त॒। भे॒ष॒जम्। भि॒षजा॑। अ॒श्विना॑। वा॒चा। सर॑स्वती। भि॒षक्। इन्द्रा॑य। इ॒न्द्रि॒याणि॑। दध॑तः ॥१२ ॥

Mantra without Swara
देवा यज्ञमतन्वत भेषजम्भिषजाश्विना । वाचा सरस्वती भिषगिन्द्रायेन्द्रियाणि दधतः ॥

देवाः। यज्ञम्। अतन्वत। भेषजम्। भिषजा। अश्विना। वाचा। सरस्वती। भिषक्। इन्द्राय। इन्द्रियाणि। दधतः॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(देवाः) विद्वांसः (यज्ञम्) सुखप्रदम् (अतन्वत) विस्तृतं कुरुत (भेषजम्) रोगप्रणाशकमौषधरूपम् (भिषजा) आयुर्वेदविदौ (अश्विनौ) आयुर्वेदाङ्गव्यापिनौ (वाचा) तदानुकूल्यया वाण्या (सरस्वती) सरः प्रशस्त आयुर्वेदबोधो विद्यते यस्याः सा (भिषक्) चिकित्साद्यङ्गवित् (इन्द्राय) परमैश्वर्याय (इन्द्रियाणि) चक्षुरादीनि धनानि वा (दधतः)॥१२॥
Essence
यावन्मनुष्याः पथ्यौषधिब्रह्मचर्य्यसेवनेन शरीरारोग्यबलबुद्धीर्न वर्द्धयन्ते, तावत् सर्वाणि सुखानि प्राप्तुं न शक्नुवन्ति॥१२॥
Subject
मातापित्रपत्यानि परस्परं कथं वर्त्तेरन्नित्याह॥
Anvaya
हे मनुष्याः! यथेन्द्रियाणि दधतो भिषक् सरस्वती भिषजाऽश्विना च देवा वाचेन्द्राय भेषजं यज्ञमतन्वत, तथैव यूयं कुरुत॥१२॥