Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 75

77 Mantra
18/75
Devata- अग्निर्देवता Rishi- उत्कील ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
व॒यं ते॑ऽअ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑। यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ऽअग्ने॥७५॥

व॒यम्। ते॒। अ॒द्य। र॒रि॒म। हि। काम॑म्। उ॒त्ता॒नह॑स्ता॒ इत्यु॑त्ता॒नऽह॑स्ताः। नम॑सा। उ॒प॒सद्येत्यु॑प॒ऽसद्य॑। यजि॑ष्ठेन। मन॑सा। य॒क्षि॒। दे॒वान्। अस्रे॑धता। मन्म॑ना। विप्रः॑। अ॒ग्ने॒ ॥७५ ॥

Mantra without Swara
वयन्तेऽअद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य । यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥

वयम्। ते। अद्य। ररिम्। हि। कामम्। उत्तानहस्ता इत्युत्तानऽहस्ताः। नमसा। उपसद्येत्युपऽसद्य। यजिष्ठेन। मनसा। यक्षि। देवान्। अस्रेधता। मन्मना। विप्रः। अग्ने॥७५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वयम्) (ते) तव (अद्य) अस्मिन् दिने (ररिम) दद्मः। रा दाने लिट्। अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः। (हि) खलु (कामम्) (उत्तानहस्ताः) उत्तानावूर्ध्वगतावभयदातारौ हस्तौ येषां ते (नमसा) सत्कारेण (उपसद्य) सामीप्यं प्राप्य (यजिष्ठेन) अतिशयेन यष्टृ संगन्तृ तेन (मनसा) विज्ञानेन (यक्षि) यजसि (देवान्) विदुषः (अस्रेधता) इतस्ततो गमनरहितेन स्थिरेण (मन्मना) येन मन्यते विजानाति तेन (विप्रः) मेधावी (अग्ने) विद्वन्॥७५॥
Essence
ये मनुष्याः पुरुषार्थेनालंकामाः स्युस्ते विद्वत्संगेनैतत् प्राप्तुं शक्नुयुः॥७५॥
Subject
पुरुषार्थेन किं साध्यमित्याह॥
Anvaya
हे अग्ने! उत्तानहस्ता वयं ते नमसोपसद्याद्य कामं हि ररिम, यथा विप्रोऽस्रेधता मन्मना यजिष्ठेन मनसा देवान् यजति संगच्छते, यथा च त्वं यक्षि, तथा वयमपि यजेम॥७५॥