Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 74

77 Mantra
18/74
Devata- अग्निर्देवता Rishi- भरद्वाज ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒तीऽअ॒श्याम॑ र॒यिꣳ र॑यिवः सु॒वीर॑म्। अ॒श्याम॒ वाज॑म॒भि वा॒ज॑यन्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते॥७४॥

अ॒श्याम॑। तम्। काम॑म्। अ॒ग्ने॒। तव॑। ऊ॒ती। अ॒श्याम॑। र॒यिम्। र॒यि॒व॒ इति॑ रयिऽवः। सु॒वीर॒मिति॑ सु॒ऽवी॑रम्। अ॒श्याम॑। वाज॑म्। अ॒भि। वा॒जय॑न्तः। अ॒श्याम॑। द्यु॒म्न॑म्। अ॒ज॒र॒। अ॒जर॑म्। ते॒ ॥७४ ॥

Mantra without Swara
अश्याम तेङ्काममग्ने तवोतीऽअश्याम रयिँ रयिवः सुवीरम् । अश्याम वाजमभि वाजयन्तो श्याम द्युम्नमजराजरन्ते ॥

अश्याम। तम्। कामम्। अग्ने। तव। ऊती। अश्याम। रयिम्। रयिव इति रयिऽवः। सुवीरमिति सुऽवीरम्। अश्याम। वाजम्। अभि। वाजयन्तः। अश्याम। द्युम्नम्। अजर। अजरम्। ते॥७४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अश्याम) प्राप्नुयाम (तम्) (कामम्) (अग्ने) युद्धविद्यावित्सेनेश (तव) (ऊती) रक्षाद्यया क्रियया। अत्र सुपां सुलग्॰ [अष्टा॰७.१.३९] इति पूर्वसवर्णः (अश्याम) (रयिम्) राज्यश्रियम् (रयिवः) प्रशस्ता रययो विद्यन्ते यस्य तत्सबुद्धौ। अत्र छन्दसीरः [अष्टा॰८.२.१५] इति मस्य वः (सुवीरम्) शोभना वीराः प्राप्यन्ते यस्मात् तम् (अश्याम) (वाजम्) सङ्ग्रामविजयम् (अभि) (वाजयन्तः) सङ्ग्रामयन्तो योधयन्तः (अश्याम) (द्युम्नम्) यशो धनं वा (अजर) जरादोषरहित (अजरम्) जरादोषरहितम् (ते) तव॥७४॥
Essence
प्रजास्थैर्मनुष्यै राजपुरुषरक्षया राजपुरुषैः प्रजाजनरक्षणेन च परस्परं सर्वे कामाः प्राप्तव्याः॥७४॥
Subject
अथ प्रजाराजजनैरितरेतरं किं कार्यमित्याह॥
Anvaya
हे अग्ने! वयं तवोती तं काममश्याम। हे रयिवः! सुवीरं रयिमश्याम, वाजयन्तो वयं वाजमभ्यश्याम। हे अजर! तेऽजरं द्युम्नमश्याम॥७४॥