Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 72

77 Mantra
18/72
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः
Mantra with Swara
वै॒श्वा॒न॒रो न॑ऽऊ॒तय॒ऽआ प्र या॑तु परा॒वतः॑। अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑॥७२॥

वै॒श्वा॒न॒रः। नः॒। ऊ॒तये॑। आ। प्र। या॒तु॒। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। अ॒ग्निः। नः॒। सु॒ष्टु॒तीः। सु॒स्तु॒तीरिति॑ सुऽस्तु॒तीः। उप॑ ॥७२ ॥

Mantra without Swara
वैश्वानरो नऽऊतय आ प्र यातु परावतः । अग्निर्नः सुष्टुतीरुप ॥

वैश्वानरः। नः। ऊतये। आ। प्र। यातु। परावत इति पराऽवतः। अग्निः। नः। सुष्टुतीः। सुस्तुतीरिति सुऽस्तुतीः। उप॥७२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वैश्वानरः) विश्वेषु नरेषु यो राजते स एव (नः) अस्माकम् (ऊतये) रक्षाद्याय (आ) (प्र) (यातु) प्राप्नोतु (परावतः) दूरदेशात् (अग्निः) सूर्यः (नः) अस्माकम् (सुष्टुतीः) या शोभनाः स्तुतयस्ताः (उप)॥७२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यः सूर्यवद् दूरस्थोऽपि न्यायेन सर्वान् पदार्थान् प्रकाशयति, यथा च दूरस्थोऽपि सद्गुणाढ्यो जनः प्रशस्यते, तथा राजपुरुषैर्भवितव्यम्॥७२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सेनेश सभेश! यथा वैश्वानरोऽग्निः सूर्यः परावतः सर्वान् पदार्थान् प्राप्नोति, तथा भवानूतये न आ प्र यातु। यथाऽग्निर्विद्युत संहितास्ति, तथा त्वं नः सुष्टुतीरुपशृणु॥७२॥