Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 71

77 Mantra
18/71
Devata- इन्द्रो देवता Rishi- जय ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ऽआ ज॑गन्था॒ पर॑स्याः। सृ॒कꣳ स॒ꣳशाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व॥७१॥

मृ॒गः। न। भी॒मः। कु॒च॒र इति॑ कुऽच॒रः। गि॒रि॒ष्ठाः। गि॒रि॒स्था इति॑ गिरि॒ऽस्थाः। प॒रा॒वतः॑। आ। ज॒ग॒न्थ॒। पर॑स्याः। सृ॒कम्। स॒शायेति॑ स॒म्ऽशाय॑। प॒विम्। इ॒न्द्र॒। ति॒ग्मम्। वि। शत्रू॑न्। ता॒ढि॒। वि॒। मृधः॑। नु॒द॒स्व॒ ॥७१ ॥

Mantra without Swara
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । सृकँ सँशाय पविमिन्द्र तिग्मँवि शत्रून्ताढि वि मृधो नुदस्व ॥

मृगः। न। भीमः। कुचर इति कुऽचरः। गिरिष्ठाः। गिरिस्था इति गिरिऽस्थाः। परावतः। आ। जगन्थ। परस्याः। सृकम्। सशायेति सम्ऽशाय। पविम्। इन्द्र। तिग्मम्। वि। शत्रून्। ताढि। वि। मृधः। नुदस्व॥७१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मृगः) मृगेन्द्रः सिंहः (न) इव (भीमः) बिभेत्यस्मात् सः (कुचरः) यः कुत्सितां गतिं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति सः (परावतः) दूरदेशात् (आ) समन्तात् (जगन्थ) गच्छ। अत्र पुरुषव्यत्ययः। अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घश्च (परस्याः) शत्रूणां सेनाया उपरि (सृकम्) वज्रतुल्यं शस्त्रम्। सृक इति वज्रनामसु पठितम्॥ (निघं॰२.२०) (संशाय) सम्यक् सूक्ष्मबलान् कृत्वा (पविम्) पुनाति दुष्टान् दण्डयित्वा येन तम् (इन्द्र) सेनाध्यक्ष (तिग्मम्) तीक्ष्णीकृतम् (वि) (शत्रून्) (ताढि) आजहि (वि) (मृधः) (नुदस्व)॥७१॥
Essence
ये सेनापुरुषाः सिंहवत् पराक्रम्य तीक्ष्णैः शस्त्रैः शत्रुसेनाङ्गानि छित्त्वा सङ्ग्रामान् विजयन्ते, तेऽतुलां प्रशंसां प्राप्नुवन्ति, नेतरे क्षुद्राशया भीरवः॥७१॥
Subject
राजजनैः कीदृशैर्भवितव्यमित्युपदिश्यते॥
Anvaya
हे इन्द्र! त्वं कुचरो गिरिष्ठा भीमो मृगो न परावत आजगन्थ परस्यास्तिग्मं पविं सृकं संशाय शत्रून् विताढि मृधो विनुदस्व च॥७१॥