Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 70

77 Mantra
18/70
Devata- इन्द्रो देवता Rishi- शास ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
वि न॑ऽइन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। योऽअ॒स्माँ२ऽअ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑॥७०॥

वि। नः॒। इ॒न्द्र॒। मृधः॑। ज॒हि॒। नी॒चा। य॒च्छ॒। पृ॒त॒न्य॒तः। यः। अ॒स्मा॒न्। अ॒भिदास॒तीत्य॑भि॒ऽदास॑ति। अध॑रम्। ग॒म॒य॒। तमः॑ ॥७० ॥

Mantra without Swara
वि नऽइन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । योऽअस्माँ अभिदासत्यधरङ्गमया तमः ॥

वि। नः। इन्द्र। मृधः। जहि। नीचा। यच्छ। पृतन्यतः। यः। अस्मान्। अभिदासतीत्यभिऽदासति। अधरम्। गमय। तमः॥७०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वि) (नः) अस्माकम् (इन्द्र) सेनेश (मृधः) मर्धन्त्यार्द्रीभवन्ति येषु तान् सङ्ग्रामान्। मृध इति सङ्ग्रामनामसु पठितम्॥ (निघं॰२.१७) (जहि) (नीचा) न्यग्भूतान् नम्रान्। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इत्याकारः (यच्छ) निगृह्णीहि (पृतन्यतः) आत्मनः पृतनां सेनामिच्छतः (यः) विरोधी (अस्मान्) (अभिदासति) अभिमुखेनोपक्षयति (अधरम्) अधोगतिम् (गमय) प्रापय। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (तमः) अन्धकारं कारागृहम्॥७०॥
Essence
सेनेशेन सङ्ग्रामा जेतव्यास्तेन नीचकर्मकारिणां निग्रहः कर्त्तव्यो राजप्रजाविरोधकारयिता भृशं दण्डनीयश्च॥७०॥
Subject
अथ सेनापतिः कीदृशो भवेदित्युपदिश्यते॥
Anvaya
हे इन्द्र सेनेश! त्वं मृधो वि जहि पृतन्यतो नः शत्रून् नीचा यच्छ, योऽस्मानभिदासति तमधरं तमो गमय॥७०॥