Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 69

77 Mantra
18/69
Devata- इन्द्रो देवता Rishi- इन्द्रविश्वामित्रावृषी Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क् कुणा॑रुम्। अ॒भि वृ॒त्रं वर्द्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ॥६९॥

स॒हदा॑नु॒मिति॑ स॒हऽदा॑नुम्। पु॒रु॒हू॒तेति॑ पुरुऽहूत। क्षि॒यन्त॑म्। अ॒ह॒स्तम्। इ॒न्द्र॒। सम्। पि॒ण॒क्। कुणा॑रुम्। अ॒भि। वृ॒त्रम्। वर्द्ध॑मानम्। पिया॑रुम्। अ॒पाद॑म्। इ॒न्द्र॒। त॒वसा॑। ज॒घ॒न्थ॒ ॥६९ ॥

Mantra without Swara
सहदानुम्पुरुहूत क्षियन्तमहस्तमिन्द्र सम्पिणक्कुणारुम् । अभि वृत्रँवर्धमानम्पियारुमपादमिन्द्र तवसा जघन्थ ॥

सहदानुमिति सहऽदानुम्। पुरुहूतेति पुरुऽहूत। क्षियन्तम्। अहस्तम्। इन्द्र। सम्। पिणक्। कुणारुम्। अभि। वृत्रम्। वर्द्धमानम्। पियारुम्। अपादम्। इन्द्र। तवसा। जघन्थ॥६९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सहदानुम्) यः सहैव ददाति तम् (पुरुहूत) बहुभिस्सज्जनैः सत्कृत (क्षियन्तम्) गच्छन्तम् (अहस्तम्) अविद्यमानौ हस्तौ यस्य तम् (इन्द्र) शत्रुविदारक सेनेश (सम्) (पिणक्) पिनष्टि (कुणारुम्) शब्दयन्तम्। अत्र ‘क्वण शब्दे’ इत्यस्माद्धातोरौणादिक आरुः प्रत्ययः। (अभि) (वृत्रम्) मेघमिव (वर्द्धमानम्) (पियारुम्) पानकारकम् (अपादम्) पादेन्द्रियरहितम् (इन्द्र) सभेश (तवसा) बलेन। तव इति बलनामसु पठितम्॥ (निघं॰२.९) (जघन्थ) जहि॥६९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सूर्यवत्प्रतापिनो भवन्ति, तेऽजातशत्रवो जायन्ते॥६९॥
Subject
पुनर्जनैः कथम्भवितव्यमित्युपदिश्यते॥
Anvaya
हे पुरुहूतेन्द्र! यथा सूर्यः सहदानुं क्षियन्तं कुणारुमहस्तं पियारुमपादमभिवर्द्धमानं वृत्रं सम्पिणक् तथा हे इन्द्र! शत्रूँस्तवसा जघन्थ॥६९॥