Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 68

77 Mantra
18/68
Devata- इन्द्रो देवता Rishi- इन्द्र ऋषिः Chhand- निचृद गायत्री Swara- षड्जः
Mantra with Swara
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च। इन्द्र॒ त्वाव॑र्तयामसि॥६८॥

वार्त्र॑हत्या॒येति॒ वार्त्र॑ऽहत्याय। शव॑से। पृ॒त॒ना॒षाह्या॑य। पृ॒त॒ना॒सह्या॒येति॑ पृतना॒ऽसह्या॑य। च॒। इन्द्र॑। त्वा॒। आ। व॒र्त॒या॒म॒सि॒ ॥६८ ॥

Mantra without Swara
वार्त्रहत्याय शवसे पृतनाषाह्याय च । इन्द्र त्वा वर्तयामसि ॥

वार्त्रहत्यायेति वार्त्रऽहत्याय। शवसे। पृतनाषाह्याय। पृतनासह्यायेति पृतनाऽसह्याय। च। इन्द्र। त्वा। आ। वर्तयामसि॥६८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वार्त्रहत्याय) विरुद्धभावेन वर्त्ततेऽसौ वृत्रः वृत्र एव वार्त्रः। वार्त्रस्य वर्त्तमानस्य शत्रोर्हत्या हननं तत्र साधुस्तस्मै (शवसे) बलाय (पृतनाषाह्याय) ये मनुष्याः पृतनाः सहन्ते ते पृतनासाहस्तेषु साधवे। (च) (इन्द्र) परमैश्वर्य्ययुक्त सेनेश (त्वा) त्वाम् (आ) समन्तात् (वर्त्तयामसि) प्रवर्त्तयामः॥६८॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यो विद्वान् सूर्य्यो मेघमिव शत्रून् हन्तुं शूरवीरसेनां सत्करोति, स सततं विजयी भवति॥६८॥
Subject
सेनाध्यक्षः कथं विजयी भवेदित्याह॥
Anvaya
हे इन्द्र! यथा वयं वार्त्रहत्याय शवसे पृतनाषाह्याय तेनान्येन योग्यसाधनेन च त्वाऽऽवर्त्तयामसि तथा त्वं वर्त्तस्व॥६८॥