Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 63

77 Mantra
18/63
Devata- यज्ञो देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑। ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्वर्दे॒वेषु॒ गन्त॑वे॥६३॥

प्र॒स्त॒रेणेति॑ प्रऽस्त॒रेण॑। प॒रि॒धिनेति॑ परि॒ऽधिना॑। स्रु॒चा। वेद्या॑। च॒। ब॒र्हिषा॑। ऋ॒चा। इ॒मम्। य॒ज्ञम्। नः॒। न॒य॒। स्वः᳖। दे॒वेषु॑। गन्त॑वे ॥६३ ॥

Mantra without Swara
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमँयज्ञन्नो नय स्वर्देवेषु गन्तवे ॥

प्रस्तरेणेति प्रऽस्तरेण। परिधिनेति परिऽधिना। स्रुचा। वेद्या। च। बर्हिषा। ऋचा। इमम्। यज्ञम्। नः। नय। स्वः। देवेषु। गन्तवे॥६३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्रस्तरेण) आसनेन (परिधिना) यः परितः सर्वतोऽधीते तेन (स्रुचा) येन यज्ञः साध्यते (वेद्या) यस्यां हूयते तया (च) (बर्हिषा) उत्तमेन कर्मणा (ऋचा) स्तुत्या ऋग्वेदादिना वा (इमम्) पदार्थमयम् (यज्ञम्) अग्निहोत्रादिकम् (नः) अस्मान् (नय) (स्वः) सांसारिकं सुखम् (देवेषु) दिव्येषु पदार्थेषु विद्वत्सु वा (गन्तवे) गन्तुं प्राप्तुम्॥६३॥
Essence
ये मनुष्या धर्मेण प्राप्तैर्द्रव्यैर्वेदरीत्या च साङ्गोपाङ्गं यज्ञं साध्नुवन्ति, ते सर्वप्राण्युपकारिणो भवन्ति॥६३॥
Subject
पुनर्मनुष्यैः क्रियायज्ञः कथं साधनीय इत्युपदिश्यते॥
Anvaya
हे विद्वंस्त्वं वेद्या स्रुचा बर्हिषा प्रस्तरेण परिधिनर्चा चेमं यज्ञं देवेषु गन्तवे स्वर्नो नय॥६३॥