Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 62

77 Mantra
18/62
Devata- विश्वकर्माग्निर्वा देवता Rishi- देवश्रवदेववातावृषी Chhand- निचृदार्ष्यनुस्टुप् Swara- गान्धारः
Mantra with Swara
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ नय॒ स्वर्दे॒वेषु॒ गन्त॑वे॥६२॥

येन॑। वह॑सि। स॒हस्र॑म्। येन॑। अ॒ग्ने॒। स॒र्व॒वे॒द॒समिति॑ सर्वऽवेद॒सम्। तेन॑। इ॒मम्। य॒ज्ञम्। नः॒। न॒य॒। स्वः᳖। दे॒वेषु॑। गन्त॑वे ॥६२ ॥

Mantra without Swara
येन वहसि सहस्रँयेनाग्ने सर्ववेदसम् । तेनेमँयज्ञन्नो नय स्वर्देवेषु गन्तवे ॥

येन। वहसि। सहस्रम्। येन। अग्ने। सर्ववेदसमिति सर्वऽवेदसम्। तेन। इमम्। यज्ञम्। नः। नय। स्वः। देवेषु। गन्तवे॥६२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(येन) अध्यापनेन (वहसि) प्राप्नोषि (सहस्रम्) असंख्यमतुलं बोधम् (येन) अध्ययनेन (अग्ने) अध्यापकाध्येतर्वा (सर्ववेदसम्) सर्वे वेदसो वेदा विज्ञायन्ते यस्मिँस्तम् (तेन) (इमम्) वक्ष्यमाणम् (यज्ञम्) अध्ययनाध्यापनाख्यम् (नः) अस्मान् (नय) प्राप्नुहि प्रापय वा (स्वः) सुखम् (देवेषु) दिव्येषु गुणेषु विद्वत्सु वा (गन्तवे) गन्तुं प्राप्तुम्॥६२॥
Essence
ये धर्माचरणनिष्कपटत्वाभ्यां विद्यां प्रयच्छन्ति गृह्णन्ति च, त एव सुखभागिनो भवन्ति॥६२॥
Subject
पुनः स एव विषयः प्रकाश्यते॥
Anvaya
हे अग्ने! त्वं येन सहस्रं सर्ववेदसं वहसि प्राप्नोषि, येन च प्रापयसि, तेनेमं यज्ञं नो देवेषु स्वर्गन्तवे नय॥६२॥