Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 60

77 Mantra
18/60
Devata- प्रजापतिर्देवता Rishi- विश्वकर्मर्षिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ए॒तं जा॑नाथ पर॒मे व्यो॑म॒न् देवाः॑ सधस्था वि॒द रू॒पम॑स्य। यदा॑गच्छा॑त् प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्त्ते कृ॑णवाथा॒विर॑स्मै॥६०॥

ए॒तम्। जा॒ना॒थ॒। प॒र॒मे। व्यो॑म॒न्निति॑ विऽओ॑मन्। देवाः॑। स॒ध॒स्था॒ इति॑ सधऽस्थाः। वि॒द॒। रू॒पम्। अ॒स्य॒। यत्। आ॒गच्छा॒दित्या॒ऽगच्छा॑त्। प॒थिभि॒रिति॒ प॒थिभिः॑। दे॒व॒यानै॒रिति॑ देव॒ऽयानैः॑। इ॒ष्टा॒पू॒र्त्त इती॑ष्टाऽपू॒र्त्ते। कृ॒ण॒वा॒थ॒। आ॒विः। अ॒स्मै॒ ॥६० ॥

Mantra without Swara
एतञ्जानाथ परमे व्योमन्देवाः सधस्था विद रूपमस्य । यदागच्छात्पथिभिर्देवयानैरिष्टापूर्ते कृणवाथाविरस्मै ॥

एतम्। जानाथ। परमे। व्योमन्निति विऽओमन्। देवाः। सधस्था इति सधऽस्थाः। विद। रूपम्। अस्य। यत्। आगच्छादित्याऽगच्छात्। पथिभिरिति पथिभिः। देवयानैरिति देवऽयानैः। इष्टापूर्त्त इतीष्टाऽपूर्त्ते। कृणवाथ। आविः। अस्मै॥६०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एतम्) परमात्मानम् (जानाथ) विजानीत। लेट्प्रयोगोऽयम् (परमे) (व्योमन्) (देवाः) विद्वांसः (सधस्थाः) सहस्थानाः (विद) बुद्ध्यध्वम् (रूपम्) सच्चिदानन्दस्वरूपम् (अस्य) (यत्) (आगच्छात्) समन्तात् प्राप्नुयात् (पथिभिः) मार्गैः (देवयानैः) देवा धार्मिका विद्वांसो गच्छन्ति येषु तैः (इष्टापूर्त्ते) इष्टं श्रौतं कर्म च पूर्त्तं स्मार्त्तं कर्म च ते (कृणवाथ) कुरुथ (आविः) प्राकट्ये (अस्मै) परमात्मने॥६०॥
Essence
सर्वे मनुष्या विद्वत्सङ्गयोगाभ्यासधर्माचारैः परमेश्वरमवश्यं जानीयुर्नोचेदिष्टापूर्त्ते साधयितुं न शक्नुयुः, न च मुक्तिं प्राप्नुयुः॥६०॥
Subject
पुनस्स एव विषय उपदिश्यते॥
Anvaya
हे सधस्था देवाः! यूयं परमे व्योमन् व्याप्तमेतं जानाथास्य रूपं विद यद्देवयानैः पथिभिरागच्छादस्मै परमात्मने इष्टापूर्त्ते आविः कृणवाथ॥६०॥