Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 57

77 Mantra
18/57
Devata- अग्निर्देवता Rishi- गालव ऋषिः Chhand- निचृदार्षी गायत्री Swara- षड्जः
Mantra with Swara
इ॒ष्टोऽअ॒ग्निराहु॑तः पिपर्त्तु नऽइ॒ष्टꣳ ह॒विः। स्व॒गेदं दे॒वेभ्यो॒ नमः॑॥५७॥

इ॒ष्टः। अ॒ग्निः। आहु॑त॒ इत्याहु॑तः। पि॒प॒र्त्तु॒। नः॒। इ॒ष्टम्। ह॒विः। स्व॒गेति॑ स्व॒ऽगा। इ॒दम्। दे॒वेभ्यः॑। नमः॑ ॥५७ ॥

Mantra without Swara
इष्टोऽअग्निराहुतः पिपर्तु न इष्टँ हविः । स्वगेदन्देवेभ्यो नमः ॥

इष्टः। अग्निः। आहुत इत्याहुतः। पिपर्त्तु। नः। इष्टम्। हविः। स्वगेति स्वऽगा। इदम्। देवेभ्यः। नमः॥५७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इष्टः) सत्कृत आहुतिभिर्वर्धितो वा (अग्निः) सभाद्यध्यक्षो विद्वान् पावको वा (आहुतः) समन्तात् तर्पितो हुतो वा (पिपर्त्तु) पालयतु पूरयतु वा (नः) अस्मानस्माकं वा (इष्टम्) सुखं तत्साधनं वा (हविः) हविषा। संस्कृतद्रव्येण विभिक्तिव्यत्ययः (स्वगा) यत्स्वान् गच्छति प्राप्नोति तत् स्वगा। अत्र विभक्तेः सुपां सुलुग्॰ [अष्टा॰७.१.३९] इत्याकारदेशः (इदम्) (देवेभ्यः) विद्वद्भ्यः (नमः) अन्नं सत्कारो वा॥५७॥
Essence
मनुष्यैरग्नौ यत् सुसंस्कृतं द्रव्यं हूयते यदिह बह्वन्नकारि जायतेऽतस्तेन विद्वदादीनां सत्कारः कर्त्तव्यः॥५७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हविराहुत इष्टोऽग्निर्न इष्टं पिपर्त्तु नः पिपर्त्तु वा इदं स्वगा नमो देवेभ्योऽस्तु॥५७॥