Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 56

77 Mantra
18/56
Devata- यज्ञो देवता Rishi- गालव ऋषिः Chhand- आर्ष्युष्णिक् Swara- ऋषभः
Mantra with Swara
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः। तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हा ग॑मेः॥५६॥

इ॒ष्टः। य॒ज्ञः। भृगु॑भि॒रिति॒ भृगु॑ऽभिः। आ॒शी॒र्दा इत्या॑शीः॒ऽदा। वसु॑भि॒रिति॒ वसु॑ऽभिः। तस्य॑। नः। इ॒ष्टस्य॑। प्री॒तस्य॑। द्रवि॑ण। इ॒ह। आ। ग॒मेः ॥५६ ॥

Mantra without Swara
इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः । तस्य नऽइष्टस्य प्रीतस्य द्रविणेहागमेः ॥

इष्टः। यज्ञः। भृगुभिरिति भृगुऽभिः। आशीर्दा इत्याशीःऽदा। वसुभिरिति वसुऽभिः। तस्य। नः। इष्टस्य। प्रीतस्य। द्रविण। इह। आ। गमेः॥५६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इष्टः) कृतः (यज्ञः) यष्टुमर्हः (भृगुभिः) परिपक्वविज्ञानैः (आशीर्दाः) य इच्छासिद्धिं ददाति (वसुभिः) प्राथमकल्पिकैर्विद्वद्भिः (तस्य) (नः) अस्माकम् (इष्टस्य) (प्रीतस्य) कमनीयस्य (द्रविण) धनम्। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति विभक्तेर्लुक् (इह) संसारे (आ, गमेः) समन्ताद् गच्छ। वा छन्दसि सर्वे विधयो भवन्ति [अ॰१.४.९ भा॰] इति छत्वाभावः॥५६॥
Essence
ये विद्वद्वत् प्रयतन्ते, त इह पुष्कलां श्रियमाप्नुवन्ति॥५६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यो वसुभिर्भृगुभिराशीर्दा यज्ञ इष्टस्तस्येष्टस्य प्रीतस्य यज्ञस्य सकाशादिह त्वन्नो द्रविण आ गमेः॥५६॥