Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 52

77 Mantra
18/52
Devata- अग्निर्देवता Rishi- शुनःशेप ऋषिः Chhand- विराडार्षी जगती Swara- निषादः
Mantra with Swara
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्त्रिणौ॒ याभ्या॒ रक्षा॑स्यप॒हस्य॑ग्ने। ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ऽऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः॥५२॥

इ॒मौ। ते॒। प॒क्षौ। अ॒जरौ॑। प॒त॒त्रिणौ॑। याभ्या॑म्। रक्षा॑सि। अ॒प॒हꣳसीत्य॑प॒ऽहꣳसि॑। अ॒ग्ने॒। ताभ्या॑म्। प॒ते॒म॒। सु॒कृता॒मिति॑ सु॒ऽकृता॑म्। ऊ॒ऽइत्यँू॑। लो॒कम्। यत्र॑। ऋष॑यः। ज॒ग्मुः। प्र॒थ॒म॒जा इति॑ प्रथम॒ऽजाः। पु॒रा॒णाः ॥५२ ॥

Mantra without Swara
इमौ ते पक्षावजरौ पतत्रिणौ याभ्याँ रक्षाँस्यपहँस्यग्ने । ताभ्याम्पतेम सुकृतामु लोकँयत्रऽऋषयो जग्मुः प्रथमजाः पुराणाः ॥

इमौ। ते। पक्षौ। अजरौ। पतत्रिणौ। याभ्याम्। रक्षासि। अपहꣳसीत्यपऽहꣳसि। अग्ने। ताभ्याम्। पतेम। सुकृतामिति सुऽकृताम्। ऊऽइत्यँू। लोकम्। यत्र। ऋषयः। जग्मुः। प्रथमजा इति प्रथमऽजाः। पुराणाः॥५२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इमौ) (ते) तव (पक्षौ) परिग्रहौ कार्य्यकारणरूपौ (अजरौ) अविनाशिनौ (पतत्रिणौ) पतत्राण्यूर्द्ध्वगमनानि सन्ति ययोस्तौ (याभ्याम्) (रक्षांसि) दुष्टान् दोषान् वा (अपहंसि) दूरे प्रक्षिपसि (अग्ने) अग्निरिव वर्त्तमान तेजस्विन् विद्वन् (ताभ्याम्) (पतेम) गच्छेम (सुकृताम्) शोभनमकार्षुस्ते सुकृतस्तेषाम् (उ) वितर्के (लोकम्) द्रष्टव्यमानन्दम् (यत्र) (ऋषयः) वेदार्थविदः (जग्मुः) गतवन्तः (प्रथमजाः) प्रथमे विस्तीर्णे ब्रह्मणि जाताः प्रसिद्धाः (पुराणाः) पुरा अध्ययनसमये नवीनाः॥५२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथाप्ता विद्वांसो दोषान् हत्वा धर्मादिसद्गुणान् गृहीत्वा ब्रह्म प्राप्यानन्दन्ति, तथैतान् प्राप्य मनुष्यैरपि सुखयितव्यम्॥५२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने! ते याविमौ पतत्रिणावजरौ पक्षौ स्तो याभ्यां रक्षांस्यपहंसि, ताभ्यामु तं सुकृतां लोकं वयं पतेम, यत्र प्रथमजाः पुराणा ऋषयो जग्मुः॥५२॥