Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 47

77 Mantra
18/47
Devata- बृहस्पतिर्देवता Rishi- शुनःशेप ऋषिः Chhand- आर्ष्युनुष्टुप् Swara- गान्धारः
Mantra with Swara
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑। इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते॥४७॥

याः। वः॒। दे॒वाः। सूर्य्ये॑। रुचः॑। गोषु॑। अश्वे॑षु। याः। रुचः॑। इन्द्रा॑ग्नी। ताभिः॑। सर्वा॑भिः। रुच॑म्। नः॒। ध॒त्त॒। बृ॒ह॒स्प॒ते॒ ॥४७ ॥

Mantra without Swara
या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥

याः। वः। देवाः। सूर्य्ये। रुचः। गोषु। अश्वेषु। याः। रुचः। इन्द्राग्नी। ताभिः। सर्वाभिः। रुचम्। नः। धत्त। बृहस्पते॥४७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(याः) (वः) युष्माकम् (देवाः) विद्वांसः (सूर्ये) चराचरात्मनि जगदीश्वरे (रुचः) प्रीतयः (गोषु) किरणेन्द्रियेषु दुग्धादिदात्रीषु वा (अश्वेषु) वह्नितुरङ्गादिषु (याः) (रुचः) प्रीतयः (इन्द्राग्नी) इन्द्रः प्रसिद्धो विद्युदग्निः पावकश्च (ताभिः) (सर्वाभिः) (रुचम्) प्रीतिम् (नः) अस्माकं मध्ये (धत्त) धरत (बृहस्पते) बृहतां पदार्थानां पते पालकेश्वर॥४७॥
Essence
अत्र श्लेषालङ्कारः। यथा परमेश्वरो गवादिपालने पदार्थविद्यायां च सर्वान् मनुष्यान् प्रेरयति, तथैव विद्वांसोऽप्याचरेयुः॥४७॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे बृहस्पतेः। देवा या वस्सूर्ये रुचो या गोष्वश्वेषु रुचः सन्ति, या वैतेष्विन्द्राग्नी वर्त्तेते, तौ च ताभिस्सर्वाभी रुग्भिर्नो रुचं धत्त॥४७॥