Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 42

77 Mantra
18/42
Devata- यज्ञो देवता Rishi- देवा ऋषयः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णाऽअप्स॒रस॑ स्ता॒वा नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑॥४२॥

भु॒ज्युः। सु॒प॒र्ण इति॑ सुऽपर्णः॒। य॒ज्ञः। ग॒न्ध॒र्वः। तस्य॑। दक्षि॑णाः। अ॒प्स॒रसः॑। स्ता॒वाः। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑ ॥४२ ॥

Mantra without Swara
भुज्युः सुपर्णा यज्ञो गन्धर्वस्तस्य दक्षिणाऽअप्सरस स्तावा नाम । स न इदम्ब्रह्म क्षत्रम्पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहा ॥

भुज्युः। सुपर्ण इति सुऽपर्णः। यज्ञः। गन्धर्वः। तस्य। दक्षिणाः। अप्सरसः। स्तावाः। नाम। सः। नः। इदम्। ब्रह्म। क्षत्रम्। पातु। तस्मै। स्वाहा। वाट्। ताभ्यः। स्वाहा॥४२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(भुज्युः) भुज्यन्ते सुखानि यस्मात् सः (सुपर्णः) शोभनानि पर्णानि पालनानि यस्मात् सः (यज्ञः) य इज्यते संगम्यते सः (गन्धर्वः) यो गां वाणीं धरति सः (तस्य) (दक्षिणाः) दक्षन्ते दीयन्ते सुपात्रेभ्यस्ताः (अप्सरसः) या अप्सु प्राणेषु सरन्ति प्राप्नुवन्ति ताः (स्तावाः) या स्तूयन्ते प्रशस्यन्ते ताः (नाम) प्रसिद्धौ (सः) (नः) अस्मभ्यम् (इदम्) (ब्रह्म) ब्राह्मणं विद्वांसम् (क्षत्रम्) चक्रवर्त्तिनं राजानम् (पातु) (तस्मै) (स्वाहा) (वाट्) (ताभ्यः) (स्वाहा)॥४२॥
Essence
ये मनुष्या अग्निहोत्रादियज्ञान् प्रत्यहं कुर्वन्ति, ते सर्वस्य संसारस्य सुखानि वर्द्धयन्तीति बोध्यम्॥४२॥
Subject
मनुष्या यज्ञानुष्ठानं कुर्वन्त्वित्याह॥
Anvaya
हे मनुष्याः! यो भुज्युः सुपर्णो गन्धर्वो यज्ञोऽस्ति, तस्य या दक्षिणा अप्सरसः स्तावा नाम सन्ति, स यथा न इदं ब्रह्म क्षत्रं च पातु, तथा यूयमप्यनुतिष्ठत, तस्मै स्वाहा वाट् ताभ्यः स्वाहा च प्रयुङ्ग्ध्वम्॥४२॥