Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 41

77 Mantra
18/41
Devata- वातो देवता Rishi- देवा ऋषयः Chhand- ब्राह्म्युष्णिक् Swara- ऋषभः
Mantra with Swara
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ऽअप्स॒रस॒ऽऊर्जो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑॥४१॥

इ॒षि॒रः। वि॒श्वव्य॑चाः। वातः॑। ग॒न्ध॒र्वः। तस्य॑। आपः॑। अ॒प्स॒रसः॑। ऊर्जः॑। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑ ॥४१ ॥

Mantra without Swara
इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यपोऽअप्सरसऽऊर्जा नाम । स नऽइदम्ब्रह्म क्षत्रम्पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहा ॥

इषिरः। विश्वव्यचाः। वातः। गन्धर्वः। तस्य। आपः। अप्सरसः। ऊर्जः। नाम। सः। नः। इदम्। ब्रह्म। क्षत्रम्। पातु। तस्मै। स्वाहा। वाट्। ताभ्यः। स्वाहा॥४१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इषिरः) येनेच्छन्ति सः (विश्वव्यचाः) विश्वस्मिन् सर्वस्मिञ्जगति व्यचो व्याप्तिर्यस्य सः (वातः) वाति गच्छतीति (गन्धर्वः) यः पृथिवीं किरणांश्च धरति सः (तस्य) (आपः) जलानि प्राणा वा (अप्सरसः) या अन्तरिक्षे जलादौ च सरन्ति गच्छन्ति ताः (ऊर्जः) बलपराक्रमप्रदाः (नाम) संज्ञा (सः) (नः) अस्मभ्यम् (इदम्) (ब्रह्म) सर्वेषां सत्योपदेशेन वर्द्धकं ब्रह्मकुलम् (क्षत्रम्) विद्यावर्धकं राजकुलम् (पातु) रक्षतु (तस्मै) (स्वाहा) (वाट्) (ताभ्यः) (स्वाहा)॥४१॥
Essence
शरीरे यावन्तश्चेष्टाबलपराक्रमा जायन्ते, तावन्तो वायोः सकाशादेव जायन्ते, वायव एव प्राणरूपा गन्धर्वाः सर्वधराः सन्तीति मनुष्यैर्वेद्यम्॥४१॥
Subject
पुनर्मनुष्यैर्वातादिभ्य उपकारा ग्राह्या इत्याह॥
Anvaya
हे मनुष्याः! य इषिरो विश्वव्यचा गन्धर्वो वातोऽस्ति, तस्य या आपोऽप्सरस ऊर्जो नाम वर्त्तन्ते, यथा स न इदं ब्रह्म क्षत्रं च पातु, तथा यूयमाचरत, तस्मै स्वाहा वाट् ताभ्यः स्वाहा संप्रयुङ्ग्ध्वम्॥४१॥