Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 40

77 Mantra
18/40
Devata- चन्द्रमा देवता Rishi- देवा ऋषयः Chhand- निचृदार्षी जगती Swara- निषादः
Mantra with Swara
सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॑ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑॥४०॥

सु॒षु॒म्णः। सु॒सु॒म्न इति॑ सुऽसु॒म्नः। सूर्य॑रश्मि॒रिति॒ सूर्य॑ऽरश्मिः। च॒न्द्रमाः॑। ग॒न्ध॒र्वः। तस्य॑। नक्ष॑त्राणि। अ॒प्स॒रसः॑। भे॒कुर॑यः। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑ ॥४० ॥

Mantra without Swara
सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम । स नऽइदम्ब्रह्म क्षत्रम्पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहा ॥

सुषुम्णः। सुसुम्न इति सुऽसुम्नः। सूर्यरश्मिरिति सूर्यऽरश्मिः। चन्द्रमाः। गन्धर्वः। तस्य। नक्षत्राणि। अप्सरसः। भेकुरयः। नाम। सः। नः। इदम्। ब्रह्म। क्षत्रम्। पातु। तस्मै। स्वाहा। वाट्। ताभ्यः। स्वाहा॥४०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सुषुम्णः) सुशोभनं सुम्नं सुखं यस्मात् सः (सूर्य्यरश्मिः) सूर्यस्य रश्मयः किरणा दीप्तयो यस्मिन् सः (चन्द्रमाः) यस्सर्वान् चन्दत्याह्लादयति सः (गन्धर्वः) यो गाः सूर्यकिरणान् धरति सः (तस्य) (नक्षत्राणि) अश्विन्यादीनि (अप्सरसः) आकाशगताः किरणाः (भेकुरयः) या भां दीप्तिं कुर्वन्ति ताः। पृषोदरादिनाऽभीष्टरूपसिद्धिः (नाम) प्रसिद्धिः (सः) (नः) अस्मभ्यम् (इदम्) (ब्रह्म) अध्यापककुलम् (क्षत्रम्) दुष्टनाशकं कुलम् (पातु) रक्षतु (तस्मै) (स्वाहा) (वाट्) (ताभ्यः) (स्वाहा)॥४०॥
Essence
मनुष्यैश्चन्द्रादिभ्योऽपि तद्विद्यया सुखं साधनीयम्॥४०॥
Subject
पुनर्मनुष्यैश्चन्द्रादिभ्य उपकारो ग्राह्य इत्याह॥
Anvaya
हे मनुष्याः! यः सूर्यरश्मिः सुषुम्णो गन्धर्वश्चन्द्रमा अस्ति, यास्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम सन्ति, स यथा न इदं ब्रह्म क्षत्रं पातु तथा विधाय तस्मै वाट् स्वाहा ताभ्यः स्वाहा युष्माभिः संप्रयोज्या॥४०॥