Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 18 / Mantra 39

77 Mantra
18/39
Devata- सूर्यो देवता Rishi- देवा ऋषयः Chhand- भुरिगार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स॒ꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ऽआ॒युवो॒ नाम॑। स न॑ऽइ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑॥३९॥

स॒ꣳहि॒त इति॑ सम्ऽहि॒तः। वि॒श्वसा॒मेति॑ वि॒श्वऽसा॑मा। सूर्यः॑। ग॒न्धर्वः॒। तस्य॑। मरी॑चयः। अ॒प्स॒रसः॑। आ॒युवः॑। नाम॑। सः। नः॒। इ॒दम्। ब्रह्म॑। क्ष॒त्रम्। पा॒तु॒। तस्मै॑। स्वाहा॑। वाट्। ताभ्यः॑। स्वाहा॑ ॥३९ ॥

Mantra without Swara
सँहितो विश्वसामा सूर्या गन्धर्वस्तस्य मरीचयो प्सरस आयुवो नाम । स नऽइदम्ब्रह्म क्षत्रम्पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहा ॥

सꣳहित इति सम्ऽहितः। विश्वसामेति विश्वऽसामा। सूर्यः। गन्धर्वः। तस्य। मरीचयः। अप्सरसः। आयुवः। नाम। सः। नः। इदम्। ब्रह्म। क्षत्रम्। पातु। तस्मै। स्वाहा। वाट्। ताभ्यः। स्वाहा॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(संहितः) सर्वैर्भूतैर्द्रव्यैः सत्पुरुषैर्वा सह मिलितः (विश्वसामा) विश्वं सर्वं साम सन्निधौ समीपे यस्य सः (सूर्यः) सविता (गन्धर्वः) यो गां पृथिवीं धरति सः (तस्य) (मरीचयः) किरणाः। मृकणिभ्यामीचिः॥ (उणा॰४.१७०) (अप्सरसः) या अप्स्वन्तरिक्षे सरन्ति गच्छन्ति ताः (आयुवः) समन्तात् संयोजका वियोजकाश्च (नाम) ख्यातिः (सः) (नः) (इदम्) वर्त्तमानम् (ब्रह्म) विद्वत्कुलम् (क्षत्रम्) शूरवीरकुलम् (पातु) रक्षतु (तस्मै) (स्वाहा) सत्यां क्रियाम् (वाट्) वहनम् (ताभ्यः) अप्सरोभ्यः (स्वाहा) सुष्ठु क्रियया॥३९॥
Essence
मनुष्याः सूर्यकिरणान् युक्त्या सेवित्वा विद्याशौर्ये वर्द्धयित्वा स्वप्रयोजनं साधयेयुः॥३९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! भवान् यः संहितो सूर्यो गन्धर्वोऽस्ति, तस्य मरीचयोऽप्सरस आयुवो नाम सन्ति, ताभ्यो विश्वसामा स्वाहा कार्यसिद्धिं करोतु, यस्त्वं तस्मै स्वाहा प्रयुङ्ऽक्षे, स भवान् न इदं ब्रह्म क्षत्रं च वाट् पातु॥३९॥